________________
ललितविस्तरासटीका अत्र सहभाविभूत द्रव्यपर्यायस्वभावावच्छिन्नार्हद्पवस्तुनिष्ठ वस्तुत्वस्य, चित्रसम्पदां च सहभावनियमरूपोऽविनाभावोऽस्ति । यथा प्रमाणमीमांसायां (१-२-२०) 'सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः'
तत्र सहभावनियम एकसामग्रीप्रसूतयोरूपरसयोाप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोर्भवति. क्रमभावनियमस्तु कृत्तिकोदयरोहिण्युदययोः, पूर्वोत्तरभाविनोः, कार्यकारणयोश्च धूमवन्योर्भवति ।
तथा च द्रव्यपर्यायात्मकं वस्तु, अर्थादेकानेकस्वभावावच्छिन्नमर्हद्वस्तु, एतस्मिन् द्रव्यपर्यायात्मनि, अर्हद्वस्तुनि, अविनाभावसम्बन्धेन (सहभावनियमेन) चित्रसम्पदुपन्यास-प्रपञ्चः,
वस्तुमात्रमनन्तधर्मात्मकं सत्त्वादिति, अत्रान्तर्व्याप्तिद्वारा साध्यसिद्धिः, यद्यहंद्रपवस्तुनि द्रव्यपर्यायस्वभावाभावमान्यतायां एताश्चित्राः सम्पदः-कल्पना एव केवला निविषयबुद्धिप्रतिभासरूपाः अतःकल्पनामात्रत्वात् , मिथ्यास्तवत्वेन सम्यक् साध्यार्थाभाव एव फलाभावः, सफलारम्भिपुरुषप्रणीतत्वाद् चित्राणां सम्पदा, एवं फलाभावो नास्ति एवापि तु सफलता, एतदुपन्यासान्यथानुपपत्त्येव चित्ररूपसम्पद्वस्तुसिद्धिः। पुनःसामान्येन चित्ररूपवस्तुप्रत्यायनाय प्रयोगमाह
____ एकानेकस्वभावत्वं तु वस्तुना इति साध्यनिर्देशः ___ अत्र हेतुः वस्त्वन्तरैः-साध्यमिव्यतिरिक्त यः सम्बन्धः-तत्स्वभावलक्षणस्तेनाविर्भतानि अनेकानि-नानारूपाणि सम्बन्धीनि-सम्बन्धवन्ति रूपाणि स्वभावाद् यस्य तत्तथा तस्य भावस्तत्त्वं तेन, दृष्टान्तमाह-पितृपुत्रभागिनेयपितृव्य-मातुल-पितामह-मातामह-पौत्र दौहित्रादिभि जनप्रतीतैः, विशिष्ट-उपलब्धसम्बन्धो यः ‘एको' द्रव्यतया पुरुषः-तथाविधपुमांस्तस्येव,
तथा च यथा द्रव्यापेक्षया विशिष्टएकपुरुषः पर्यायापेक्षया (भिन्नभिन्नसम्बन्धापेक्षया) पिता च पुत्रश्च भ्राता च मातुलश्च भागिनेयश्च पितृव्यश्च पितामहश्च मातामहश्च पौत्रश्च (पुत्रस्य पुत्रः) दौहित्रः (दुहितुश्च पुत्रः) इत्यादिः, मिथोविरुद्ध-विशेषणै विशिष्टः कथ्यते यथाऽन्यवस्तुभिः (पुत्रादिभिः) सह पूर्वकथितापेक्षालक्षणसम्बन्धेन प्रादुर्भूतानेकसम्बन्धवान् , तत्सम्बन्धविशिष्ट एव पुरुषोऽस्ति,
___ एकानेकस्वभावत्वस्यैव दृढत्वसम्पादनार्थं पुनदृष्टान्तान्तरमाह-पूर्वापरान्तरितानन्तरितदूरासन्ननवपुराणसमर्थाऽसमर्थदेवदत्तकृतचैत्रस्वामिकलब्धकीतहतादिरूपघटवद्वा,
(१) पूर्वघट:=प्रथमकालावच्छिन्नो घटः-पूर्वकालिकोऽथवा पूर्वः परः-प्रशंसा-कृतपौर्वापर्य-परत्वापरत्वापेक्षयाऽयं मङ्गलः-उत्तमः कुम्भ इत्यर्थ,
266