________________
ललित विस्तरासटीका (२) अपरघटः पश्चात्कालिको घटः, अपर-अधमत्वापेक्षयाऽमङ्गलो घटः, अर्थादत्र कालकृतप्रशंसाकृत-पौर्वापर्यापेक्षयैष परः, न परः, अपरो घट उच्यते,
(३) अन्तरितो घटः व्यवहितो घटः वस्तुद्वयान्तरे मध्ये स्थितः, अन्तरालस्थो घटः,
(४) अनन्तरितो घटः अन्तराल-व्यवधानरहितोऽव्यवहितत्वेन–अनन्तरितत्वेन-अनन्तरस्थितो घटः, अमध्यस्थो घटः,
(५) दूरस्थितो घट: असमीपस्थो घटः,
(६) आसन्नस्थो घटः निकटस्थितोऽदूरस्थो घटः, एकस्यां दिशि स्थितं पदार्थद्वयमाश्रित्य यो दूरे स्थितः स परः, निकटे स्थितोऽपर उच्यतेऽर्थादत्र क्षेत्रकृतदेशकृतपर त्वाऽपरत्वं ज्ञेयम्,
(७) नवो घट: नवीनः, तत्कालकृतः, वार्तमानिकः, न भूतकालीनः, सद्यस्कः, अर्वाचीनः,
(८) पुराणो घटः प्राचीनो, भूतकालीनः (अत्र कालकृते परत्वापरत्वे ज्ञेये)
(९) समर्थों घटः जलानयनादि,-अर्थक्रियाकारित्वरूपसामर्थ्यविशिष्टो घट:-दृढ़ो घटोऽस्ति,
(१०) असमर्थों घट: जलानयनादिरूपार्थक्रियायामशक्तो घटोऽदृढोऽपि घटः, (११) देवदत्तकृतो घट:=देवदत्तेन कृतो-निर्मितो घटोऽयं, न केनाप्यन्येन,
(१२) चैत्रस्वामिको घटः चैत्रः स्वामी यस्य स घटः, चैत्रस्वामिको घटः, नान्यस्वामिको घटः,
(१३) लब्धो घटः प्राप्तोऽयं पारितोषिके दानदक्षिणायां वा प्राप्तः, कुतोऽपि लब्धः (न फल्गुरूपः)
(१४) क्रीतो घट:=दत्त्वा रूप्यकाणि लब्धो घटः, क्रयेण प्राप्तः, (१५) हतो घट: सच्छिद्रो घटः, मुद्गरादिना खण्डितो घटः, खण्डशः कृतः ।
(१६) आदिना अणुरूपो घटः, महान् घटः, उच्चोऽयं घटः, नीचोऽयं घटः, एक एव घटः, तत्तदपेक्षयाऽन्यै घंटे विशिष्टो वाच्यत्वरूपेण भिद्यते, यावदनन्तधर्मात्मको भवति, ....... वस्तुनिष्ठानां, अनन्तधर्माणां (सम्बन्धव्यवहारक्रियानयपर्यायादीनां) नियामिका अपेक्षा
अनन्ता एव, ययाऽपेक्षया नित्यं तयाऽपेक्षया (विवक्षया) नित्यमेव, ययाऽपेक्षयाऽनित्यं वस्तु तयाऽपेक्षयाऽनित्यमेव न नित्यम् । अपेक्षाकृता, नित्यानित्याद्या, अनन्ता धर्माः,
267