________________
ललितविस्तरासटीका दृष्टान्तमाह-पितृपुत्रभ्रातृभागिनेथरादिशब्दात् पितृव्यमातुलपितामहमातामहपौत्रदौहित्रादिभिर्जनप्रतीतैः, विशिष्ट-उपलब्धसम्बन्धो यः “एको" द्रव्यतया पुरुषः-तथाविधपुमांस्तस्येव, अस्यैव दृढत्वसम्पादनार्थ पुनदृष्टान्तान्तरमाह___“पूर्वेत्यादि” तत्तदपेक्षया पूर्वापरादिपञ्चदशरूपः, आदिशब्दादणुमहदुच्चनीचाद्यनेकरूपश्च यो घटस्तस्येव वा एकानेकस्वभावत्वमिति, हेतुसिद्धयर्थमाह
टी०....संपदादिषु चित्तन्यासेन सम्यग् अनुष्ठानं- 'विशेषप्रणिधाननीतितः '=विशेषेणविभागेन-पृथक पृथक् स्तोतव्यसंपदादिगुणेषु प्रणिधान-चित्तन्यासः (विशुद्ध-भावनासारं, तदर्थाऽर्पित-मानसम् । यथाशक्ति क्रियालिङ्ग, प्रणिधानं मुनि गौ ॥ ) तदेव नीतिः-प्रणिधानविषयभूतगुणरूपस्वकार्यप्राप्तिहेतुरूपा या नीतिः, तस्याः-तन्नीतिद्वारा विशेषतःप्रणिधानरूपहेतुद्वारा अर्हत्त्वभगवत्त्वादिरूपगुणं प्रति हेतुरूपो यो गुणप्रतिबन्धक-आवारकभूतस्य कर्मणो हासः विनाशः, तद्गुणानुकूल-पुण्यानुवन्धि-पुण्यकर्मबन्धो वर्तते, तस्याक्षेपः--अव्यभिचारः ( अविसंवादःअव्यवधान) तेन सुविधानं भवति तद् द्वारा भावरूपं अनुष्ठानं ज्ञातं भवति एतद्विषयस्पष्टार्थ चित्र-नानाविध-सम्पदामुपन्यासप्रपञ्चः,
इयं चित्रा सम्पन्न स्याद्वादमन्तरेण सङ्गतिमङ्गति, इति तत्सिद्धयर्थमाह
" एकानेकस्वभावप्रतिबद्धश्च " द्रव्यपर्यायस्वभावाहलक्षणवस्तुनान्तरीयकः पुनः ‘अयम्' अनन्तरोक्तः प्रपञ्चः चित्रसम्पदुपन्यासरूपः 'इति' एतत् 'सम्यगालोचनीयं ' अन्वय-व्यति. रेकाभ्यां यथेदं वस्तु सिद्धयति, अर्थात् स्तोतव्यसम्पदाद्या नानाविधाः सम्पदःचित्राःस्याद्वाद (नित्यत्वानित्यत्वाद्यनेक-धर्माऽवच्छिन्नैक-वस्तुस्वीकाररूपानेकान्तवादं 'नोकत्र नानाविरुद्धधर्मप्रतिपादकःस्याद्वादः, किन्तु अपेक्षाभेदेन तदविरोध-द्योतकस्यात्पदसमभिव्याहत-वाक्यविशेषः') विना न सङ्गतिमनन्ति, एतत् सिद्धान्तसिद्ध-द्रव्यपर्यायरूपस्वभावाऽवच्छिन्नार्हद्-रूपवस्तु, विमुच्य चित्राणां सम्पदामुपन्यास-प्रपञ्चःस्थातुं नार्हति, यत्र यत्राऽर्हदधिकरणे वस्तुनि द्रव्यपर्यायस्वभावरूपं वस्तुत्वं वर्तते तत्र तत्र चित्राः सम्पदो युज्यन्ते,
__ यत्र यत्र द्रव्यपर्यायस्वभावरूपं वस्तुत्वं नास्ति, तत्र तत्र चित्रसम्पदो न सन्ति, यतोऽत्र व्याप्यव्यापकक्षेत्राणि समान्येव यथा यत्र यत्र ज्ञेयत्वं तत्र तत्र नामाऽस्तित्वं अथवा यत्र यत्र प्राणाःसन्ति तत्र तत्र चेतनत्वं, यत्र यत्र ज्ञेयत्वं नास्ति तत्र तत्र नामाऽस्तित्वं नास्ति, यत्र यत्र न प्राणाः सन्ति, तत्र तत्र चेतनत्वं नास्ति, इत्येवमन्वयव्याप्तिव्यतिरेकव्याप्तिद्वयं ज्ञेयम् ,
265