________________
ललितविस्तरासटीका
अथवा बहुसम्पदां बहुगुणानां बहुमानेन प्रधानमनुष्ठानं सदनुष्ठानं गण्यते,
चित्राणां सम्पदामुपन्यासरूपप्रपञ्चस्य प्रयोजनं प्रदय, स्याद्वादस्य सोदाहरणं प्रवलपुष्टि वा सिद्धिं करोति विवरणकारः
विशेषप्रणिधाननीतितस्तत्तबीजाक्षेपसौविहित्येन सम्यगनुष्ठानमिति च ज्ञापनार्थ, एकानेकस्वभाववस्तुप्रतिबद्धश्चायं प्रपञ्च इति सम्यगालोचनीयं,
अन्यथा कल्पनामात्रमेता इति फलाभावः, एकानेकस्वभावत्वं तु वस्तुनो वस्त्वन्तरसम्बन्धाविर्भूतानेकसम्बन्धिरूपत्वेन पितृपुत्रभ्रातृभागिनेयादिविशिष्टैकपुरुषवत् ,
पूर्वापरान्तरितानन्तरितदृरासन्ननवपुराणसमर्थासमर्थदेवदत्तकृतचैत्रस्वामिकलब्धकीतहतादिरूपघटवद्वा, ___पं०..."विशेषप्रणिधाननीतितः” विशेषेण-विभागेन स्तोतव्यसम्पदादिषु गुणेषु प्रणिधानंचित्तन्यासस्तदेव नीतिः-प्रणिधीयमानगुणरूपस्वकार्यप्राप्तिहेतुस्तस्याः “ तबीजाक्षेपसौविहित्येन" तस्य-गुणस्याहत्त्वभगवत्त्वादेबीज-हेतुस्तदावारककर्महासस्तदनुकूलशुभकर्मबन्धश्च तस्य "अक्षेपः" अव्यभिचारस्तेन सौविहित्य-सुविधानं तेन “सम्यग्” भावरूपम् अनुष्ठानमिति च ज्ञापनार्थम्एतच्च ज्ञापित भवतीतिभावः, इयं च चित्रा सम्पन्न स्याद्वादमन्तरेण सङ्गतिमङ्गतीति तत्सिद्धयर्थमाह-" एकानेकस्वभाववस्तुप्रतिबद्धश्च ” द्रव्यपर्यायस्वभावार्हल्लक्षणवस्तुनान्तरीयकः पुनः "अयम्" अनन्तरोक्तः "प्रपश्चः” चित्रसम्पदुपन्यासरूप "इति" एतत् “ सम्यगालोचनीयं " अन्वयव्यतिरेकाभ्यां यथेदं वस्तु सिध्यति तथा विमर्शनीयं, विपक्षे बाधामाह
__ " अन्यथा" एकानेकस्वभावाभावेऽर्हता “कल्पनामात्र" कल्पना एव केवला निर्विषयबुद्धिप्रतिभासरूपा " एताः " चित्राः सम्पदः, ततः किमत आह-"इति" अतः कल्पनामात्रत्वात् “फलाभावो" मिथ्यास्तवत्वेन सम्यक्स्तवसाध्यार्थाभावो, न चैवं, सफलारम्भिमहापुरुषप्रणीतत्वादासामित्येतदुपन्यासान्यथानुपपत्त्यैव चित्ररूपवस्तुसिद्धिरिति । पुनः सामान्येन चित्ररूपवस्तुप्रत्यायनाय प्रयोगमाह-एकानेकस्वभावत्वं तु वस्तुन इति साध्यनिर्देशः, अत्र हेतुः वस्त्वन्तरः-साध्यधर्मिव्यतिरिक्तैर्यः सम्बन्धः-तत्स्वभावापेक्षालक्षणस्तेनाविभूतान्यनेकानि-नानारूपाणि सम्बन्धीनि-सम्बन्धवन्ति रूपाणि स्वभावात् यस्य तत्तथा तस्य भावस्तत्त्वं तेन,
264