________________
ललितविस्तरासटीका समाधानं ईदृश्या जिज्ञासायास्तृप्तये 'अप्रतिहतवरज्ञानदर्शनधरेभ्यो व्यावृत्तच्छद्मभ्यो नमः' इति पदद्वयवती स्तोतव्यसम्पदः सप्तमी सकारणस्वरूपसम्पदिति ख्याता,
अप्रतिहतवरज्ञानदर्शनधरत्व-व्यावृत्तच्छद्मत्वरूपं, अर्हतां भगवतां, अखण्डस्वच्छमनन्तं स्वरूपमेव विद्यतेऽर्थात् , एतद्रूपहेतुनाऽर्हन्तो भगवन्तो नैरन्तर्येण नियमतः स्तोतव्याःसन्ति ।
(८) जिज्ञासुप्रश्नः एवं सप्तम्याःसम्पदो ज्ञानं सम्यक्तया जातं तथाऽपि अत्यन्तगम्भीरोदारप्रेक्षापूर्वकारिणां स्वारस्येन जिज्ञासा जायते यदर्हन्तो भगवन्तः स्वोपज्ञाऽऽज्ञानुसारेण गति कुर्वतां स्वसमानकरणे परमोदारमहाशयाः सन्ति वा न वा ? अर्थात् अर्हन्तः स्वकीयाऽऽज्ञाभक्तान् वीरसेवकान् भक्ति विनिमये स्वतुल्यघटनसमर्थाः सन्ति न वा !
समाधानम् = यदेशी जिज्ञासा प्रादुर्भवति, तदा तत्पूर्तये 'जिनेभ्योः जापकेभ्यः, तीर्णेभ्यस्तारकेभ्यः, बुद्धेभ्यो बोधकेभ्यः, मुक्तेभ्यो मोचकेभ्यो नम:' एतद्रपा पदचतुष्टयवती, अष्टमी, आत्मतुल्यपरफलकर्त्तत्वनामिका सम्पत् स्थापिता, अस्यां सम्पदि, अर्हन्तो भगवन्तः स्वतुल्यफलं स्वदर्शितशासनमार्गे प्रस्थितानां परेषां समर्पयन्ति. अत एव महोदारा-परमकारुणिकाः सन्ति, अत एषां स्तुतिः परमकरणीया भवति.
(९) जिज्ञासुप्रश्नः एव अष्टमी-सम्पदः सम्यग ज्ञानं जातं तथापि दीर्घदर्शिनां प्रेक्षापूर्वकारिणां जिज्ञासोत्तिष्ठते यद् सर्वज्ञतासर्वदर्शितारूपप्रधानगुणस्याक्षयस्थितिसम्पादनेन. शिवाचलादिरूप-सिद्धिगति-स्थानरूपप्रधानफलस्य परमलाभवन्तस्तेऽर्हन्तो भगवन्तः सन्ति न वा ? ते चैतदत्यन्तसुदुर्लभतमलाभेन सदा भयविजेतारः सन्ति वा न वा ?
समाधानम् एतादृशी या जिज्ञासा तस्याः शान्तये 'सर्वज्ञेभ्यः, सर्वदर्शिभ्यः, शिवमचलमरुजमनन्तमक्षयमव्यावाधमपुनरावृत्तिसिद्धिगतिनामधेय स्थानं सम्प्राप्तेभ्योऽर्हद्भ्यो भगवद्भ्यः नमो नमः ' इतिरूपा पदत्रयवती नवमी प्रधानगुणापरिक्षयप्रधानफलाप्तिरूपाभयसम्पदुपन्यस्ता.
अर्थादेतेऽर्हन्तो भगवन्तः सर्वज्ञत्वसर्वदर्शित्वनामकगुणं सदा सर्वथाऽक्षीणत्वेन धारयन्तः, शिवमचलमरुजमनंतमक्षयमव्यावाधमपुनरावृत्ति-प्रभृतिरूपं सिद्धिगतिनामकस्थानरूपं फलं प्रबलं प्राप्य जितभयत्व (भवक्षयरूपभयविजय) रूपमभयं सम्प्राप्ता अत एव सदा सर्वथा सर्वत्राऽर्हन्तो भगवन्तः स्तोतव्या एव। ___ अनेनैव क्रमेण प्रेक्षापूर्वकारिणां जिज्ञासाप्रवृत्तिरित्येवं सम्पदामुपन्यासः, एतावत्सम्पत् समन्विताश्च निःश्रेयस-निवन्धनमेते, एतद्गुणबहुमानसारं एतेषां स्तोतव्यसम्पदादीनां गुणानां बहुमानेन प्रीत्या सारं स एव वा सारो यत्र तत्सम्यगनुष्ठानं भवतीति सम्बन्धः ।
263