________________
ललितविस्तरासटीका इह चादौ प्रेक्षापूर्वकारिणां प्रवृत्त्यङ्गत्वात अन्यथा तेषां प्रवृत्त्य सिद्धेः प्रेक्षापूर्वकारित्वविरोधात् स्तोतव्यसम्पदुपन्यासः, तदुपलब्धावस्या एवं प्रधानांसाधारणासाधारणरूपां हेतुसम्पदं प्रति भवति विदुषां जिज्ञासा तद्भाजनमेते इति तदुपन्यासः, तदवगमेऽप्यस्या एवासाधारणरूपां हेतुसम्पदं प्रति परम्परया मूलशुद्ध्यन्वेषणपरा एते इति तदुपन्यासः, तत्परिज्ञानेऽपि तस्या एव सामान्येनोपयोगसम्पदं प्रति परम्परया फलप्रधानारम्भप्रवृनिशोला एते इति तदुपन्यासः, तत्परिच्छेदेऽपि उपयोगसम्पद एव हेतुसम्पदं प्रति विशुद्धिनिपुणारम्भमाज एते इति तदुपन्यासः, एतद्बोधेऽपि स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदं प्रतोतिसामान्यविशेषरूपफलदर्शिन एत इति तदुपन्यासः, एतद्विज्ञानेऽपि रतोतव्यसम्पद एव सकारणां स्वरूपसम्पदं प्रति विशेषनिश्चयप्रिया एते इति तदुपन्यासः, एतत्संवेदनेऽप्यात्मतुल्यपरफलकर्तृत्वसम्पदं प्रतीति, अतिगम्भीरोदारा एते इति तदुपन्यासः, एतत्प्रतोतावपि प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयसम्पदं प्रति भवति विदुषां जिज्ञासा दीर्घदर्शिन इति तदुपन्यासः, अनेनैव क्रमेण प्रक्षापूर्वकारिणां जिज्ञासाप्रवृत्तिरित्येवं सम्पदामुपन्यासः, एतावत्सम्पत्समन्विताश्च निःश्रेयसनिबन्धनमेते एतद्गुणबहुमानसारं
पं०..."तद्भाजनमेत इति" तद्भाजनं-जिज्ञासाभाजनं, एते-प्रेक्षापूर्वकारिणः, “एतद्गुणेत्यादि” एतद्गुणबहुमानसारम्-एतेषां-स्तोतव्यसम्पदादीनां गुणानां बहुमानेन-प्रीत्या सारं स एव वा सारो यत्र तत्सम्यगनुष्ठानं भवतीति सम्बन्धः, कथमित्याहटी०...'इह चादौ' इत्यादि-प्रेक्षापूर्वकार्यकारिणः-जिज्ञासवः पूर्व एतज्ज्ञातुमिच्छन्ति यत्
259