________________
ललितविस्तरासटीका
र्थेषु अर्थात्तान् प्रति हर्ष : ( चित्तप्रसन्नता ) तथा सिद्धि र्वर्तते.
पूजनीयपूजा विषयकाभिलाषादिलिङ्गानां
अत एवैष विशिष्टव्यापक - संघादि - विषयकागतहर्ष - पूजादि - अभिलाषादि लिङ्गान सिद्धि:- सत्ता (अतो भावश्रावके एवंभूत आशयो विज्ञेयः ) भावश्रावके ( न तु द्रव्यादिश्रावके ) विज्ञेया;नत्वन्यथा, तथाविवेकाभावेन पूज्यमानव्यतिरेकेणाऽन्येषु पूज्येषुहर्षादिलिङ्गभावात् अर्थात्तथाविध-विशिष्ट—विवेकस्याभावेन पूज्यमानैक - व्यक्ति-भिन्नान्य सर्व - पूज्य व्यक्तीन् (क्तीः) प्रति पूजाविषयका शयद्योतक हर्षपूजा ऽभिलाषादिलक्षणानां, असश्वेन द्रव्यश्रावका दौ तथालक्षणदर्शनस्याभावः ।
इति - नमस्कारक्रिया विषयभृतानामर्हतां बहुत्वेन नमस्कारकर्त्तरि शुभाशयस्य वृद्धिरस्ति, अत एव फलातिशयः - विशिष्ट - उत्कृष्टफलस्य सिद्धिः सुतरां सिद्धाऽस्ति.
एवं - यथास्तोतव्येषु, अर्हत्सु बहुवचनं सफलं तथा ( नमन्ति वद् ) एतद् वक्ष्यामः आत्मनि (स्तोत्रकर्तृस्तोतृरूपे आत्मनि) गुरुषु च ( गुरवो वदन्ति ) ( तत्तुल्यगुणानां तत्तुल्यगुणवतोऽपेक्ष्य, बहुत्ववाचक बहुवचनस्य सार्थक्यं - साफल्यं ज्ञेयम्, यतः तत्तुल्यानां अन्येषां गुणानां समावेशेन ( गुणवतां वा ) स्तोतृसदृशगुणवति सर्वात्मनि, आत्मत्वं गुरुसदृशगुणवत्सु अपरेषु, सर्वगुरुषु गुरुत्वं, परमार्थतः स्तोत्रकर्तृत्वरूपमात्मत्वं तथा गुरुत्वम् ) किञ्च - मोक्षानुकूलाऽनुष्ठानकारकाणां कुशलानां - बुद्धिमतां पुरुषाणां ( अनेकगुणिन: पूजया सर्वेषां गुणवतां पूजा भवति, अर्थाद् गुणिनो गौणीकृत्य - गौणभावपूर्वकं गुणानां प्रधानाभावे ) ( न प्रवृत्तिरूप ) प्रवृत्तिः, गुणगणाधारयोश्चिता- विचारणारूप - सूक्ष्माभोग-उपयोग (ज्ञान) पूर्विका भवति, अर्थादिदमेकं गुणवद्गतगुणपूजायाः प्रधानभावेन एकगुणिरूप - व्यक्तिपूजाकरणेन सकलगुणवतां पूजा कृता गण्यते, एतद् वस्तु, अत्यन्तनिपुणबुद्धिगम्यमिति पर्याप्तं प्रसङ्गेन, अर्थाद् विषयोऽयं तदैव ज्ञायते यदाऽतिनिपुण बुद्धिप्रयोगो भवेत् तथा च ' नमो जिणाणं जियभयाणं ' इति पदेन कथयति च - सर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थान सम्प्राप्तेर्जितभयत्वाभिधानेन, अर्थात् सर्वज्ञसर्वदर्शिषु एव सर्वथाभयाक्षयस्वरूपजितभयत्वरूपाभयत्वस्य प्रतिपादनेन प्रधान ( सर्वज्ञत्वादिरूपगुणानामपरिक्षयस्य प्रधानाशिवादिस्थानप्राप्तिरूप ) फलस्य चाप्तिरूपाभयनामकसम्पदुक्तेति ( ९ )
(क्वचित् स्थले 'सव्वन्नूणं आदितो जियभयाणं इति पर्यन्तेषु त्रिषु पदेषु प्रभो मोक्षावस्थाया दर्शितत्वात् एतत्पदत्रयवती नवमी सम्पन्मोक्षसम्पदुक्तैवेति . )
अथ प्रेक्षापूर्वक प्रवृत्तिकारकाणां जिज्ञासां लक्ष्यीकृत्य तत्प्रत्युत्तररूपाणां नवसम्पदां क्रमशः चमत्कारपूर्वक उपन्यासः कृतः । एवंविषयमेनं सूक्ष्मेक्षिकया वर्णयति -
258