________________
ललितविस्तरासटीका तीर्थक्कराणां तुल्यगुणत्व-ज्ञापनेन, अनुदाराणां-औदार्यरहितानां चित्तप्रवर्तनार्थ, अनुदारचित्तः पुरुषो हि कृपणतायोगतः सर्वतीर्थकरपूजां कर्तुम शक्नुवन् –सन् -एकमपि तीर्थकर पूजयेत्, अतस्तत्प्रवर्तनार्थमुच्यते, 'एगम्मि' इत्यादिसूत्रपाठः,
व्यक्ति गौणीकृत्य (गुणाः पूजास्थानं, गुणिषु-वाक्यतः) अतो गुणान् प्रधानीकृत्य, ते गुणिनः सर्वे पूज्या एवेति भाववत्त्वेन चित्तस्यौदार्यसम्भवः, यद्यपि शास्त्रीयमिदं वचनं न भवेत्तदा कृपणो जनः, कार्पण्येन सर्वविषयकपूजां कर्तुमशक्नुवन्नैकमपि न पूजयेत्तथा च कृपणमपि पूजाविषये बलेन वर्तयत्वेक प्रोत्तेजयत्येवेदं वाक्यं, भो भ्रातरः ! यूयं सर्वान् जिनान् पूजयितुमसमर्थास्तदैकमपि जिनं पूजयत, यतो गुणपूजां मुख्यीकृत्य एकस्य जिनस्य पूजनेन सर्वे जिनाः पूजिता इति लाभविशेष समासादयतेति. 'एगम्मि' इत्यादिवाक्यस्य प्रथमं फलमिति.
(२) द्वितीयं कारणमुच्यते-पूज्यमानात्-पूजाया विषयभूतैकव्यक्तिरूपादहतो भगवतोऽन्ये येऽर्हन्तो भगवन्तस्तेषु सर्वा-निरवशेषाः सम्पदो नव सम्पदः ( स्तोतव्य-ओघहेतु-विशेषहेतुस्तोतव्योपयोग-उपयोगहेतु-स्तोतव्य-विशेषोपयोग-स्तोतव्यस्वरूप-निज-समफलद-मोक्षरूपाः) स्युः तासां परिग्रहार्थमववोधनार्थ च, तेऽपि परिपूर्णसम्पद एवेति भावः। यथैकरतीर्थकरः सर्वसम्पत्समन्वितस्तथा सर्वे तीर्थकराः सर्वसम्पत्समन्विता एवेति 'एगम्मि' इत्यादि शास्त्रीयवाक्यस्य द्वितीय कारणमिति.
(३) 'एगम्मि पूइये सव्वे पूइया' इति शास्त्रीयवाक्यस्य तृतीयकारणमुच्यते “सङ्घपूजादौ " सङ्घचैत्य ( जिनमन्दिर-जिनप्रतिमा ) साधुपूजादौ, आशयव्याप्ति-प्रदर्शनार्थ चेति तृतीयं कारणम् , अर्थात् संघ-चैत्यसाधुपूजादौ ( च सर्वक्षेत्रीय-सर्वकालिक-संघादिं प्रति पूजाभावस्य विद्यमानत्वेन ) तद्विषयकाशय-भावोल्लासस्य व्याप्ति ( व्यापकता) दर्शकत्वेन शास्त्रीयवाक्यं सफलमिदम् ।
आशयव्याप्तिप्रदर्शनम् अयं-एष सङ्घादिपूजाविषय आशयो भावोल्लासः-तत्तत्कालक्षेत्रादिगत-संघादिपूजाक राशयः, एवंभूतः व्यापकोऽस्ति ( सर्व-क्षेत्रीय-सर्वकालीन-सर्व पूजनीयरूपविषयगतः ) यतः इति एवं यथा एकस्मिन् पूज्यमाने तथा 'तदा' एकपूजाकाले 'अपरागत-हर्षादिलिझसिद्धेः 'अपरेष्वपूज्यमानेषु सङ्घसाधु-चैत्यादि-पूज्यविभागेषु तत्कालमेव प्राप्तेषु तेषु विषये तत्कालं (बुद्धौ वा ) साक्षादुपस्थितेषु साधुसंघादिपूजनीयपदा
257