________________
ललितविस्तरासटीका
(१) 'कं विषयं प्रगृह्य शक्रस्तवस्य प्रवृत्ति र्जाता ? ' इति प्रश्नप्रत्त्युत्तरमज्ञात्वा शकस्तवपाठादौ प्रवृत्तिः प्रेक्षावतां का कीदृशी वा भवेत् । अत एव शास्त्रकारेण पूर्व 'नमोत्थुणं अरिहंताणं भगवंताणं अर्हद्भ्यो भगवद्भ्यो नमोऽस्तु' इति पदवती प्रथमा स्तोतव्यसंपदुपन्यस्ता, प्रेक्षावतां शक्रस्तवेऽस्मिन् प्रवृत्तिर्भवेदत्यर्थ, आदौ-आरम्भे, एतस्यां सम्पदि प्रवृत्तेरङ्गभूतस्य विषयस्य (विशेषस्य) उद्घोषणं कृतमस्ति, यदि प्रेक्षावतां प्रवृत्तेरङ्गभूतस्तुतिविषयाणां, अर्हतां भगवतां निरूपणं न कृतं स्यात्तदा प्रेक्षापूर्वकारित्वविरोधे प्रेक्षापूर्वकारिणां प्रवृत्तेरसिद्धि भवति, यतः प्रेक्षापूर्वकारिणां प्रवृत्तिस्तदा भवेद् यदा प्रवृत्तेरङ्गानि ( सर्वाणि ) ज्ञातानि भवेयुः, अर्थादस्मिन्प्रकृतस्तवे प्रेक्षापूर्वकार्यकारिणां प्रवृत्तिर्भवेदेतदर्थ प्रवृत्तेरङ्गभूत-स्तोतव्यस्तुतिपात्र-अर्हद्भगवद्पविषय-प्रतिपादिकायाः-स्तोतव्यसम्पदः प्रथमतः उपन्यासः कृतः ।
(२) जिज्ञासुप्रश्नः स्तोतव्यसम्पदः किमर्थ पूर्व निर्देशः कृतः ? तस्य प्रत्युत्तरं ( समाधानं ) ज्ञातं परन्तु प्रेक्षापूर्वकारिणः पुनः ( जिज्ञासा प्रश्नः-अवान्तर-धर्मप्रकारक ज्ञानेच्छा-विशेषज्ञानगोचरेच्छा, विचार इति जिज्ञासायाश्चत्वारोऽर्थाः ) जिज्ञासा प्रादुर्भवति, कीदृशं प्रधानं सर्वसाधारण चानन्यसाधारणं हेतुं गृहीत्वा स्तोतव्याऽर्हद्भगवतःस्तुतिः क्रियते ?
यदैवं जिज्ञासा ज्ञाता तदा सूत्रकारेण 'आइगराणं तित्थयराणं ' सयंसंबुद्धाणं 'आदिकर-तीर्थकर-स्वयंसम्बुद्धेभ्योऽर्हद्भ्यो भगवद्भ्यो नमोऽस्तु,' एतत्पदत्रयवती द्वितीया प्रधानसाधारणासाधारणहेतुसम्पत् कृता. साधारण-हेतुरूपादिकरत्वस्य, चासाधारणहेतुरूपं तीर्थकरत्वं स्वयंसम्बोधिश्च, ययोः स्वरूपं पूर्व कथितं तत एव ज्ञेयम् ।
आदिकरत्वं तथा चादौ-मोक्षापेक्षया आदौ-भवे जन्मादिप्रपञ्चकरणस्वभाववन्तः, अत एव तीर्थकरत्वसम्बन्धेन, स्वयंसम्बोधिनामकगुणसंसर्गेण आदिकरत्वेन-तीर्थकरत्वेन-स्वयंसम्बुद्धत्वेनाऽर्हन्तो भगवन्तः स्तोतव्या एव ।
(३) जिज्ञासुप्रश्नः प्रेक्षापूर्वकारिणो द्वितीयसम्पदो बोधे जातेऽपि परम्परया (अविच्छिन्नधारया) क्रमतो मूलरूपतीर्थकररूपात्मद्रव्यस्य शुद्धि-स्वच्छताया, अन्वेषण-अनुसंधानकरणे परायणं प्रेक्षापूर्वकारिणं जिज्ञासोत्तिष्ठते, एते तीर्थंकरपदवीविभूषितात्मानः परम्परया मूलतोऽनादिकालतः (प्रथमतो मूलतः) शुद्धा उत्तमकोटिकाः सन्ति न वा !
समाधानम् एतस्या जिज्ञासायाः प्रत्युत्तररूपा 'पुरिसुत्तमाणं-पुरिससिंहाणं-पुरिसवरपुंडरियाणं-पुरिसवरगंधहत्थीण'इति चतुष्पदवती तृतीया स्तोतव्यसम्पदोऽसाधारणरूपहेतुसम्पदुक्तेति.
260