________________
ललितविस्तरासटीका
भयेभ्य इति । सर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थानसंप्राप्तेजितभयत्वाभिधानेन प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयसम्पदुक्तेति ।९।
पं०..."एवंभूतश्च" व्यापकश्च “ अयं " सङ्घादिपूजाविषय आशयः, कुत इत्याह "इति” एवं, यथा एकस्मिन् पूज्यमाने तथा “ तदा” एकपूजाकाले “ अपरागतहर्षादिलिङ्गसिद्धः” अपरेष्वपूज्यमानेषु सङ्घादिदेशेष्वागतेषु-तत्कालमेव प्राप्तेषु तेषु विषये आगतस्य -आरूढस्य हर्षपूजाभिलाषादिलिङ्गस्य सिद्ध वश्रावकस्य विज्ञेयो न त्वन्यथा, तथाविधविवेका भावेन पूज्याः मानव्यतिरेकेणान्येषु हर्षादिलिङ्गाभावात् , “कुशलप्रवृत्तरिति” कुशलानांबुद्धिमतां प्रवृत्ते:-'एगंमि पूइयंमी'त्यादिकायाः
टीका०....अथ-पूर्वोक्त-सप्रमाणपुष्टनिरूपणेन 'अद्वैत एको मुक्तः-ईश्वरोऽस्ति, इत्येतन्मतखण्डनद्वारा, अर्हन्तः (मुक्ताः परमेश्वराः) बहवो यावदनन्ता इति सिद्धम् , तदेवमर्हता बहुत्वस्य-(अनेकत्व-नानात्वस्य) सिद्धि या, विषयाणां बहुत्वेन च नमस्कारकारकस्य फलातिशयः फलस्यातिशयः (बहुत्वं-महत्त्वं) कथमिति चेत्कथ्यते नमस्कार-नामकक्रियाया विषयभूतानां गुणिभूतानां (अर्हद्व्यक्तीनां बहुत्वेन) सदाशयस्फातिसिद्धेः सानातिशय-प्रयुक्त-सद् (शुभ) आशयरूपभावोल्लासस्य विशेष-विशाल-वृद्धि-सिद्धिरस्ति.
नमस्कारक्रियाकर्त्तरि-आत्मनि पूज्यार्हद्रूप-विषयवहुत्वद्वारा फलस्यातिशयो भवति, यतः सदाशयस्फातिरूपहेतुसिद्धिर्भवति.
ननु नमस्काररूपयैकया क्रिययाऽनेकेषां जिनानां विषयीकरणे, आशयस्फातिःकेव ?
प्रत्युत्तरम् = यदेकनमस्कारक्रिययाऽनेकजिनानां विषयीकरणं (उक्त-क्रियायामनेकेषां जिनानां विषयतया परिणमनं) तदेतत् -समानगुणवतां जिनानां विषयतया ग्रहणं-विषयीकरणं विवेकरूपफलजनकमत एव सदाशय-स्फाति-वृद्धिरेव,
प्रश्नः यद्येवं तदैक (दानादिरूप) क्रिययैकयाऽनेक-सन्माननं बहुब्राह्मणैकरूपकदानं तथा नमस्कारपात्राणां जिनानामनेकेषां केवलैकनमस्कारक्रियया वन्दनं, तत् कथं नाऽल्पत्वम् ? (वत्) यथा सन्माननं (वन्दन) न्यू नमस्ति, तदा फलमपि कथं न्यू नं न स्यात् ?
प्रत्युत्तरम् =क्रियाभेदभावात् -क्रियायां भेदभावतोऽनेकषां सन्माननस्य नाल्पता-न न्यूनताऽस्ति, यथा सा हि रत्नावलीविषयकदर्शनक्रिया, एकरन-विषयकदर्शनक्रियातो
254