________________
ललितविस्तरासटीका
भिद्यते-भिन्ना भवति, यतः हेतुफलभेदभावात् , हेतौ च फले भेदो भवति. तथात्राऽपि हेतौ च फले च भेदोऽस्ति, अतः क्रियायां भेदः, यत्र यत्र हेतुफलभेदो भवति तत्र तत्र क्रियाभेदो भवति, (हेतुफलभेदसत्त्वे क्रियाभेदसत्त्वं, क्रियाभेदहेतुः (कर्ता) हेतुफलभेदो वर्तते)
-हेतुभेदस्य च फलमेदस्य च घटना
हेतुभेद-घटना=यथैकाहविषयकनमस्कारक्रिया, सर्वार्हविषयकनमस्कारक्रियातो भिन्नाऽस्ति, यत एकाह विषयकनमस्कारक्रियायामेकाहद्पव्यक्तिः, आलम्वननिमित्तत्वेन हेतोआंदोऽस्ति, तथा सर्वाहविषयकक्रिया-नमस्कारात्मकक्रिया एकाहविषयकनमस्कारक्रियातो भिन्नाऽस्ति, यतः सर्वार्हद्-विषयकनमस्कारक्रियायां सर्वेऽनन्ता अर्हन्तो विषयतयाऽऽलम्बननिमित्तत्वेन हेतुभेदोऽतः क्रियाभेदो ज्ञेयः, यथाहि-यथैकरत्नविषयकदर्शनक्रिया, रत्नावली (रत्नराशि) विषयकदर्शनक्रियातो भिन्नाऽस्ति, यतस्तस्यां दर्शनक्रियायां विषयतयाऽऽलम्बनमेकरत्नमस्ति, अतो हेतुभेदतः क्रियाभेदः, तथा रत्नराशिविषयकदर्शनक्रिया, एकरत्नदर्शनक्रियातो भिन्नाऽस्ति, यतः दर्शनक्रियायां आलम्बनभूता रत्नावलयः-रत्नराशयोऽतः क्रियाभेदः (एकवचनबहुवचन-प्रयुक्त-क्रियाभेदः)
फलभेदघटना=यथैकरत्नदर्शने हर्षरूपं फलं यद्भवति, ततः रत्नावलीदर्शनेऽत्यन्तानन्दपराकाष्ठा प्राप्ता, हर्षप्रकर्षों भवति, तथैवैकाहविषयक-नमस्कारजन्यानन्दतः सर्वकालिकानन्तार्हद्-विषयकनमस्कारक्रिया, अत्यन्तअनंतानन्दजनकोऽस्ति, एवं फलभेदेन क्रियाभेदो ज्ञेयः, तथा चात्यन्तानन्दजनकत्वेनैक-नमस्कार-क्रियातोऽनेक-जिनानां सन्माननेऽल्पत्वस्यात्यन्ताभावोऽस्ति, हेतुफलभेदात्कथमित्थमल्पत्वम् ?
ब्राह्मणैकरूपकदानोदाहरणं तूपन्यासयोग्यं नैव रूपकादिव नमस्काराद् ब्राह्मणानामिवाहतामुपकारा-योगात्-अर्थान्नमस्कार-क्रियया विषयभूतेष्वर्हत्सु कि जातीयमप्युपकाररूपफलं न भवति, (दृष्टान्त-वैषम्यमत्र ज्ञेयम् ) कथं तर्हि तत्फलम् इति ? चेद् उच्यते
तदालम्बनचित्तवृत्तेः भगवतामालंबनं यत्र तादृशीचित्तवृत्तिरूपनमस्कारक्रियाया होत्कर्षरूपं फलं नमस्कार-कर्त्तरि भवति. यथाऽनेकप्रकाशकवस्तूनामालम्बनकारकचक्षुषा स्पष्टदर्शनं भवति, तथाऽत्रायं फलातिशयो ज्ञेयः,
शङ्का यदि तादृशविशिष्टनमस्काररूपचित्तवृत्तेस्तादृशं फलं भवति तर्हि भगवद्भ्य एतत्फलं इति कथं कथ्यते ?
255