________________
ललितविस्तरासटीका तिशयजनिकेति च फलभेदः, कथमित्थमल्पत्वं ? ब्राह्मणैकरूपकदानोदाहरणं त्वनुपन्यसनीयमेव, रूपकादिव नमस्कारात् ब्राह्मणानामिवाहतामुपकारायोगात्, कथं तर्हि तत्फलमिति ?, उच्यते, तदालम्बनचित्तवृत्तेः,
पं०-" तदालम्बनचित्तवृत्तेरिति” भगवदालम्बनचित्तवृत्तेर्नमस्काररूपायाः, तत्फलमिति सम्बध्यते, नन्वेवं तर्हि भगवद्भ्य इत्याशङ्कयाह
___ तदाधिपत्यतः तत एव तद्भावात् , चिन्तामणिरत्नादौ तथा दर्शनादिति वक्ष्याम', कथमेकपूजया सर्वपूजाभिधानं ', तथा चागमः-“एगम्मि पूइयंमी, सव्वे ते पूइया होंति” । अस्ति एतद्, विशेषविषयं तु तुल्यगुणत्वज्ञापनेनैषामनुदारचित्तप्रवर्त्तनाथ तदन्येषां सर्वसम्पत्परिग्रहार्थ सङ्घपूजादावाशयव्याप्तिप्रदर्शनार्थच ।।
पं०..."तदाधिपत्यतो" अगवदाधिपत्यतो, भगवन्त एव तच्चित्तवृत्तेस्तज्जनकेषु हेतुषु प्रधानत्वेनाधिपतयस्ततः "तत" एव भगवद्भ्य एव " तद्भावात्" क्रियाफळभावात् , कथमित्याह-"चिन्तामणिरत्नादौ तथा दर्शनात् " चिन्तामण्यादौ प्रणिधानादेर्भवत् फलं चिन्तामणिरत्नादेर्भवतीति लोके प्रतीतिदर्शनाद् , “ अनुदारे” त्यादि, “ अनुदारचित्तप्रवर्त्तनार्थम् " अनुदारचित्तो हि कार्पण्यात्सर्बपूजां कर्तुमशक्नुवन्नैकमपि पूजयेद् , अतस्तत्प्रवर्तनार्थमुच्यते एगंमीत्यादि, द्वितीयं कारणमाह-"तदन्येषां” पूज्यमानादन्येषां भगवतां, “ सर्वसम्पत्परिग्रहार्थ च" सर्वा-निरवशेषाः सम्पदः-स्तोतव्यहेतुसम्पदादय उक्तरूपास्तासामवबोधनार्थ च, तेऽपि परिपूर्णसम्पद एवेति भावः, “सङ्घपूजादौ" सङ्घचैत्यसाधुपूजादौ आशयव्याप्तिप्रदर्शनार्थ चेति तृतीयं कारणमिति ॥ __एवंभूतश्चायमाशय इति, तदाऽपरागतहर्षादिलिङ्गसिद्धेभवश्रावकस्य विज्ञेय इति, एवमात्मनि गुरुषु च बहुवचनमित्यपि सफलं वेदितव्यं, तत्तुल्यापरगुणसमावेशेन तत्तुल्यानां परमार्थेन तत्त्वात् , कुशलप्रवृत्तेश्च सूक्ष्माभोगपूर्वकत्वात् , अतिनिपुणबुद्धिगम्यमेतदिति पर्याप्तं प्रसङ्गने । नमो जिनेभ्यो जित
253