________________
ललितविस्तरासटीका
धर्मास्तिकायादीनामतीन्द्रियपदार्थानां सद्भावस्य प्रतिपत्तये, आगमश्चोपपतिश्च संपूर्ण दृष्टि (दर्शन) तत्त्वस्य लक्षणम् ॥ २ ॥
आगमस्य लक्षणमाप्तवचनम्, 'आप्तवचनादाविर्भूतमर्थ संवेदनमागमः ' ।। १ ।। उपचारादाप्तवचनं च ।। २ ।। (आप्तिर्हि रागद्वेषमोहानामैकान्तिक आत्यन्तिकश्च क्षयः, सा येषामस्ति ते खल्वाप्ताः, अभ्रादित्वाद्मत्वर्थी योऽच्प्रत्ययः । (स्या. मं. अन्य. यो. व्य. श्लोक १)
आप्तं दोषक्षयाद्, अनृतवचनहेतोरसम्भवात् वीतरागोऽनृतं वाक्यं न ब्रूयाद् ॥ ३ ॥ तत् च एतत् (आप्तवचनं ) उपपत्त्यैव गम्यते बुधैः युक्तिद्वारैव (दृष्टेष्टाविरोधि वचनमागमः ) प्रायशो पण्डितैर्ज्ञायते - निश्चीयते, वाक्यरूपलिङ्गेनैव वक्ता - ( आप्तः ) निर्णीयते यतः सद्वाक्यं चोपपत्तिमद् भवति ॥ ४ ॥
( वाक्यंलिङ्गा हि वक्तारः गुणदोषविनिश्चय, क्रियालिङ्गा हि कर्त्तारः, शिल्पमार्गे यथैव हि )
अन्यथाऽतिप्रसङ्गः स्यादिति यदि उपपत्त्या युक्तितो रहितं यत्तद्वाक्यं वा सद्वाक्यत्वेन मतेऽतिप्रसङ्गः स्यात् - आप्तवाक्यपरिचायकसद्वाक्यतो भिन्नं सर्वं वाक्यं आगमत्वेन मतं भवेत् अथवा युक्तिरहितानि विसंवादीनि सर्वाण्यल्पज्ञवचनानि, आगमरूपाणि सद्वाक्यरूपाणि भवेयुर्यतो महतोऽपि महान्, अनर्थो भवेत्, इत्यलं प्रसङ्गेन — एवं प्रसनोपात - चर्चा - विचारणया पर्याप्तमिति ।
नवम्याः सम्पदः क्रियमाण उपसंहारः
तदेवमर्हतां बहुत्वसिद्धिः, विषयबहुत्वेन च नमस्कर्तुः फलातिशयः, सदाशयस्फातिसिद्धेः । आह - एकया क्रियया अनेकविषयीकरणे कैवाशयस्फातिः ?, नन्वियमेव - यदेकया अनेकविषयीकरण, विवेकफलमेतत्, आह एवं ह्येकक्रिययाऽनेकसन्माननं बहुब्राह्मणैकरूपकदानतुल्यं, तत् कथं नाल्पत्वम् ? उच्यते, क्रियाभेदभावात् सा हि रत्नावलीदर्शन क्रियेवैकरत्नदर्शनक्रियातो भिद्यते, हेतुफलभेदात्, सर्वार्हदालम्बनेयमिति हेतुभेद:, प्रमोदा
252