________________
ललितविस्तराखटीका अर्थात् अतीन्द्रियवचनगम्यार्थरूपपरमब्रह्मापि युक्तेविचारस्य गम्यमपि मन्तव्यमेवातस्तदपि युक्त्यागमाभ्यां विचारयितुं प्रयुज्यते इत्ययुक्तमुक्तं प्राक् 'सादिपृथक्त्वममीषामनादि चेत्यादि.'इतिःप्रक्रमसमाप्त्यर्थः ।
तस्माद्-वचनमात्रस्याप्रामाणात् यथाविषयं कषादिसर्वविषयानतिक्रमेण, कषच्छेदतापरूपाभिः आदिमध्यावसानाविसंवादरूपाभिर्वा तिसृभिः कोटिभिः परिशुद्धो-निर्दोषो यो विचारः-विमर्शस्तेन या शुद्धिः वचनस्य निर्देषिता तस्याः सकाशात् प्रवर्तितव्यं हेयोपादेययोः । (कषादिकोटित्रयं प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः ।
ध्यानाध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ १॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमात् । संभवति च परिशुद्धं स पुनर्धमच्छेद इति ॥२॥ जीवादिभाववादो बन्धादि-प्रसाधक इह तापः ।
एभिः परिशुद्धो धर्मो धर्मत्वमुपैति ।। ३ ।। (हरिभ. सू. कृ. पंच व. द्वारे.) व्यभिचारवाधविरोधरूपदोषत्रयरूपाऽविसंवादस्य सर्वथाऽभावरूपाद्यसंवादकोटीत्रयपरिशुद्धमथवाऽऽदिमध्यावसानाविसंवादरूपकोटित्रयपरिशुद्धं वचनम् ।
शास्त्रविरुद्धवादाभावरूप-यथार्थान्यथाकथनरूप - प्रमाणानुसरणरूपवंचनाभावरूपाविसंवादत्रयरहितं वचनम् ।
तथा च विचार-मीमांसापूर्वक-सूक्ष्मसमीक्षण-परीक्षणजन्य-वचनशुद्धिद्वारा परिशुद्धवचनं प्रवर्तकं, हेयहानोपादेयोपादानरूपप्रवृत्तौ कारणं भवति.
-पूर्वोक्तविषये पातञ्जल्यादीनामृषीणां संवादिता
उक्त चेत्यादिः-आगमेनेति-श्रद्धानुसारिणो वाल-जीवाः, प्रामाणिकपुरुषाणां वचनरूपागमेन, अनुमानेनेति-युक्ति-अनुसारिणो मध्यमपुरुषाः, हेतुजन्यसाध्यविषयकज्ञानरूपानुमानेन, योगाभ्यासेनेति, अतीन्द्रियदर्शि-पुरुषः योगध्यानाऽभ्यासरसेनैवं प्रकारत्रयेण प्रज्ञां संस्कारसम्पन्नां प्रकल्पयन्नुत्तमं तत्त्वं लभते-प्राप्नोति-जानातीत्यर्थः, पापरूपसम्मोहनिवृत्त्याऽन्यथा न जानाति, श्रुतादिभेद-श्रुत-चिंता-भावना-तर्क-स्वपरहितादिनोत्तमं तत्त्वं ज्ञायते, इति पतञ्जल्याद्या वदन्ति ॥१॥
251