________________
ललितविस्तरासटीका न च युक्तिप्रमाणम् (गणनीयप्रमाणसङ्ख्याऽतिरिक्ता युक्तिरतो न प्रमाणम् ) परमते (अद्वैतवादमते) वचनमात्रस्यैव प्रमाणत्वाऽभ्युपगमात् , एवं ब्राह्मणादि-न्यायेनालोचनीयमेतद्-वचनमात्रात् प्रवर्तनमिति (वेदोक्तमात्रत्वेन प्रवर्तनम् , अत्रोपपत्तिमवगणय्य सदोषनिर्दोषविचारशून्यत्वेन वचनमात्रमेव ग्राह्यम्, तदयुक्तं (सर्वसमानमान्यतायां) -शुष्कार्दैन्धनदहनकल्पमेव.)
तथा च न्यायस्य–युक्तिपूर्वकविचारस्यानुपपत्तेः कूपपतितोदाहरणमप्युदाहरणं-कथनमात्रं वर्त्तते,
___यतः तत्कूपे, उद्भतमत्स्यादेः तथाऽऽदिशब्दाद् 'अतद्भुतोऽपि' कार्यवशात्तत्रैव बद्धस्थितिस्तस्याऽपि पतनकारणमविचार्यैवोत्तारणोपायमार्गणस्याऽनवलोकनात् , एवं च 'तथादर्शनाद्' इति हेतोः पूर्वोक्तस्य प्रतिज्ञैकदेशासिद्धिः, (अग्रे तृतीयश्लोकस्थात् 'तथादर्शनाद्एव'-कूपपतन-कारणविचारणमन्तरेणोत्तारणोपायमार्गणस्यैव दर्शनात् ) अथ 'तदुद्भूतादिरप्युत्तारयिष्यते, ततो न प्रतिज्ञैकदेशासिद्धिरि'त्याह-तत्र च' तदुद्भतादेरपि, उत्तारणे-जलचरमत्स्यादे र्वाह्यनिष्कासने मरणाद्यनर्थरूपदोषसम्भवात् , तथेति हेत्वन्तरसमुच्चये, तदुद्भूतादेरुत्तारणं कर्त्तमशक्यत्वात् , अशक्यत्वे हेतुमाह='प्रयासनैष्फल्यात् ,' उत्तारणरूपप्रयत्नस्य नैष्फल्यात्उत्तारणीयोत्ताररूपफलाभावात् ,
सारसङ्ग्रहं कथयति-नैवोत्तारणोपायगवेषणमपि परोपन्यस्तं न विचाररूपं, किन्तु विचाररूपमेव,
यद्येवं ततः-तस्मादुत्तारणोपायेऽपि, विचारो-(आस्तां तावत् प्रकृतवचनार्थेऽपिशब्दार्थः) विमर्शः अनाश्रयणीय एव-न विधेय एव, परमते अथ वचनार्थः, अतीन्द्रियत्वाद्युक्तेरविषयः इदं च कूपपतितोत्तारणं तथाविधं युक्तेरविषयरूपं न भविष्यतीत्याशङ्क्याह 'दैवायत्तं च तद्' तत्कूपपतितोत्तारणं दैवायत्तं-कर्माधीनं वर्ततेऽतः तदुत्तारणहेतुः, अतीन्द्रियं-इन्द्रियविषयातीतं 'दैव' कर्म वर्ततेऽतो, विचारणरूपयुक्तेरविषयरूपं देवं-कर्माऽस्ति, भवन्मतेन वचनमात्रस्यैकविषयत्वात् विचारवचनयोर्महदन्तरं मेरुसर्षपवद् वर्तते,
कथं तत्र सम्यगविज्ञाते दैवे-कर्मणि, तत्कर्मायत्तायोत्तारणाय प्रवृत्तिः !
पुनरपि-अभिप्रायान्तरं कथयति=शकुनाद्यागम (ज्योतिष्काद्यागमस्य) युक्तिरूपविचारस्य विषयतायां, अनुकूलपतिकूल (शुभाशुभ) स्य देवस्य कर्मणः समान एव प्रसङ्गः 'इतरत्रापि'परमब्रह्मादौ, अतीन्द्रिये वचनार्थे अथ च अतीन्द्रिय-वचनगम्यार्थभूतपरमब्रह्मादौ समानः प्रसङ्गः
250