________________
ललितविस्तरासटीका
प्रतिबध्यप्रतिबन्धकभावो विज्ञेयः ) यतः शिवसुगत सुरगुरुप्रणीतानां वचनानां व्यक्तिभेदेनैव बहुत्वेन - नानात्वेन वचनप्रणेतृरूपव्यक्तीनामनेकत्वेन वचनानि, अपि नाना - अनेकानि सन्ति, तत एव मिथः - परस्परं नित्यक्रुिद्धा - नित्यरूपस्य, अनित्यविरुद्ध - नित्यरूपस्य पदार्थस्य वाचकानि वचांसि परस्परविरोधीनि ( मिथोबाधकानि ) गण्यन्ते, मिथोबाधकानि च वचांसि नैकविधानि प्रवर्त्तकानि न भवन्ति ( प्रवृत्तिबाधः ) यद्येवं तदा विशिष्टवचनादेव प्रवृत्तिरित्याह 'विशेषस्य ' दृष्टेष्टाविरोधरूपविशेषस्य : प्रवर्त्तकत्वं गणेयं, तथापि विचारं विना विशेषयुक्त - विशिष्टं वचनं दुर्लक्षं भवति. पुष्टमीमांसां विना विशिष्टवचनस्य ज्ञानं ( ( भानं - परिचयः - ध्यानंलक्ष्यं) अशक्यं (दुःशकं वा ) भवति.
किञ्च सर्ववचनेभ्यो युगपत्प्रवृत्तिरसम्भविन्येवेति, एकवचनत एव ततः प्रवर्तितव्यम्, तत्र च एकतो वचनात्, हेयहानोपादेयोपादानरूपप्रवृत्तौ सत्यां प्रवृत्तिप्रतिबन्ध केनापरवचनेन पूर्वोक्त-प्रवृत्तिर्निराकृता - प्रतिबद्धा भवति किञ्च बाधकवचनस्य त्यागेन ( तत्त्यागात् ) 'इतरप्रवृत्तौ' बाधविषयवचनेन प्रवृत्तौ ( प्रतिबध्यमान - वचनतः प्रवृत्तौ ) यदृच्छा - स्वेच्छा सिद्धा भवति, कथमिति चेदुच्यते यतः कस्यचिद् वचनस्य, अप्रयोजकत्वं - अप्रवर्तकत्वं - प्रवृत्तिप्रतिबन्धकत्वं वर्तते, एतदपि कुत इत्याह 'तदन्तरनिराकरणात् = यतो वचनान्तरेण - अन्येन वचनेन सर्ववचनानां निराकरणं भवति.
भवतु नाम वचनानां विरोधस्तथापि वचनबहुमानात् प्रवृत्तस्य यतः कुतोऽपि वचना - दिष्टसिद्धि र्भविष्यतीत्याशङ्क्य, व्यतिरेकतः प्रतिवस्तू - पन्यासमाह - 'न' अभावमुद्रयाऽन्यवस्तुनउपन्यासं कथयति–'न' हि : - यस्माद्, निर्दोष - निरपराधं ब्राह्मणं (द्विजं) भागवतादिकं प्रव्रजित (सन्न्यासिनं) अवमा(म)न्यमानः अनाद्रियमाणः - तिरस्कारपूर्वकमनादरकर्त्ता अथवा दुष्टं - सदोषं (सापराधं ) प्रतिवचनकरणादिना मन्यमानः - सप्रेमादवान्, ब्राह्मणभक्तः प्रव्रजितभक्तो वा नैवे - त्युच्यते - एवमुच्यते कुशलैः, अतो दुष्टभक्त एव ब्राह्मणादिभक्तः, एवमत्राऽपि योजना कार्या, तथाहि = एवं निर्दोषं शास्त्रमनाद्रियमाणः सदोषं वा मन्यमानः शास्त्राराधको न स्यादिति ।
एवं तर्हि वचनाददुष्टात्ततः प्रवर्तिष्यते इत्याशङ्क्याह
दुष्टेतरावगमः - सदोष निर्दोषवचनयोर्विज्ञानं - विचारं विना नैव भवति, अतो विचार आश्रयणीयः, विचारश्च युक्तिगर्भो (युक्तिमूलकस्तकभवति) युक्तिश्च दृष्टेष्टा विरोधरूपा ज्ञेया ।
३२
249