________________
ललितविस्तरासटीका
___ अमीषां जीवानां सादि पृथक्त्वम् अनादि वाऽहेतुकादि वा युक्त्या चिन्त्यं (विचारणीयं मोक्तव्यं वा) यतोऽतीन्द्रियत्वं प्रयोजनाभावो वर्तते ॥ २॥
यथा कूपे पतितोत्तारणकर्तुः तदुत्तारणोपायमार्गणं न्याय्य-न्यायानुगतं । ननु (तर्के) कथमयं पतित इति हन्तेति-प्रत्यवधारणे (प्रतिनिश्चये) प्रत्यवधारयत तथा दर्शनादेव-कूपपतनकारणविचारणमन्तरेणोत्तारणोपाय-मार्गणस्यैव दर्शनात् ।। ३ ।।
भवरूपकूपपतितोतारणकर्तुरपि ह्येवं युज्यते, वचनात्-आगमात् तदुत्तारण-मार्गणमलं, शेषव्युदासेन-वचनव्यतिरिक्तप्रमाणपरिहारेण, साधनादिविचटनविचारपरिहारेण वा ॥ ४ ॥
एवमिति-वचनप्रमाणतः, अद्वैते-आत्मनामेकीभावे सति वर्णविलोपादि-वर्णा:-ब्राह्मणक्षत्रियवैश्यशुद्रलक्षणास्तेषां विलोपः-प्रतिनियतस्वाचारपरिहारेण परवर्णाचारकरणम्, आदिहणात् स्वाचारपराचारानुवृत्तिरूपसंस्कारः, “असङ्गतम्" अयुक्तं नीत्या-न्यायेन, नीतिविचार:=परमपुरुषलक्षणे ब्रह्मणि वर्णाभावात् -ब्राह्मणादि-वर्णविभागाभावात् , मामृद्ब्रह्मणि वर्णविभागः, ब्रह्मणोंऽशभूतेष्वात्मसु भविष्यतीति चेदाह
___ "क्षेत्रविदां द्वैतभावाच्च" क्षेत्रवेदोऽपि मुक्ता-मुक्त भेदेन द्वैविध्यमाश्रिताः, अतस्तेष्वपि न वर्णविभागोऽतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति. 'इत्यादि' एवमन्यदपि वचनं गृह्यते, एतदपि-अनन्तरोक्तं, किं पुनः परम्परोक्तं प्राच्यमित्यपि शब्दार्थः,
प्रतिक्षिप्तं' निराकृत, कुत इत्याह-'श्रद्धामात्रगम्यत्वाद्' रुचिमात्रविषयत्वात् , पूर्वोक्तं सर्व वादिना यदुक्तं तत्सर्व न्यायेन खण्डितं भवति कथमिति चेदुच्यते यदि श्रद्धा-रुचिभवेत्तदा स्वीकरणीयं नान्यथाऽत्र युक्ति-तर्कवलं नास्ति, 'वचनात् परमब्रह्मण एते क्षेत्रविदोंऽशा व्यवस्थिताः' इत्यत्र वचनस्य निर्वचनमुच्यतामिति प्रश्ने,
वचननिर्वचनम्=दृष्टं अशेषप्रमाणैरुपलब्धं, इष्ट-वचनोक्तमागमोक्तमेव दृष्टेष्टयोयोमध्ये विरोधाभावेनाविरुद्धस्य वचनस्य वचनत्वमागमत्वम् , (दृष्टाबाधितत्वे सतीष्टा-बाधितत्वं वचनस्य लक्षणम्, दृष्टशास्त्राविरोधार्थ, सर्वसत्त्वहितावहं, मितं गम्भीरमालादि वाक्यं यस्य स सर्ववित् ।)
_ अन्यथा-यत्र वचने पूर्वोक्तवचनस्य लक्षणं घटते, तद्बाधितवचनद्वारा, हेयहानोपादेयोपादानरूप-प्रवृत्तिरसिद्धाऽवरुद्धा भवति,
(अत्र हेयहानोपादेयोपादानरूपप्रवृत्ति प्रति दृष्टेष्टाऽविरोधि वचनं कारणमस्ति, हेयहानोपादेयोपादानरूपप्रवृत्ति प्रति दृष्टेष्टविरोधिवचनं प्रतिबन्धकमस्ति, एवं कार्यकारणभावश्च
248