________________
ललितविस्तरासटीका
पं०..." दैवायत्तं च" कर्माधीनं " तद्” उत्तारणं, ततः किमित्याह - " अतीन्द्रियं च " इन्द्रियविषयातीतं च तदुत्तारण हेतु "देव" कर्म " इति" अस्माद्धेतोः “युक्तेः” विचारणस्याविषयो, भवन्मतेन वचनमात्रस्यैव विषयत्वात् कथं तत्र सम्यगविज्ञाते तदायत्तायोत्तारणाय प्रवृत्तिरिति, पुनरप्यभिप्रायान्तरमाशङ्क्याह- “शकुनाद्यागमयुक्तिविषयतायां तु" शकुनाद्यागम श्वादिशद्वाद् ज्योतिष्काद्यागमग्रहो युक्तिश्च विचारस्तद्विषयतायां तु दैवस्यानुकूलेतर रूपस्य समान एव प्रसङ्गः इतरत्रापि " परमब्रह्मादावतीन्द्रिये वचनार्थे तदपि युक्त्यागमाभ्यां विचारयितुं प्रयुज्यत इत्ययुक्तमुक्तं प्राक् सादिपृथक्त्वममीषामनादि चेत्यादि" इतिः - प्रक्रम समाप्त्यर्थः, तस्माद् - वचनमात्रस्याप्रामाण्यात् " यथाविषय " कषादिसर्व विषयानतिक्रमेण “त्रिकोटिपरिशुद्धविचारशुद्धितः ” तिसृभिः - कषच्छेदतापलक्षणाभिरादिमध्यावसाना विसंवादलक्षणाभिर्वा कोटिभिः परिशुद्धो- निर्दोषो यो विचारो - विमर्शस्तेन या शुद्धिः - वचनस्य निर्दोषता तस्याः सकाशात्, प्रवर्त्तितव्यं हेयोपादेययोः,
66
66
"
" आगमेनानुमानेन, ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ||१|| आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ २ ॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात् ॥ ३ ॥ तच्चैतदुपपत्त्येव, गम्यते प्रायशो बुधैः । वाक्यलिङ्गा हि वक्तारः, सद्वाक्यं चोपपत्तिमत् ॥४॥ अन्यथाऽतिप्रसङ्गः स्यात्, तत्तया रहितं यदि ।
सर्वस्यैव हि तत्प्राप्तेरित्यनर्थो महानयम् ||५||" इत्यलं प्रसङ्गेन, टी०.... परमब्रह्मणः - पुरुषाद्वैतलक्षणस्यैते - शास्त्रलोकसिद्धाः क्षेत्रविदो - जीवाः, अंशाविभागाः, आगम-वचनरूपप्रमाणेन व्यवस्थिताः - प्रतिष्ठिताः ते च द्विधा इत्याह- वह्निस्फुलिङ्गकल्पा : - पृथगेव ( ब्रह्मणः ) विचटनेन संसारिणः (प्रतिष्ठिताः) लवणसमुद्रोपमा स्त्वन्ये- यथा समुद्रे लवणमपृथगेव लीनतया व्यवस्थितम् एवं मुक्तात्मनः प्राग् विचटनात् संसारिणोऽपि ब्रह्मणि ॥ १ ॥
"
247