________________
ललितविस्तरासटीका
पं०...."तदन्तरनिराकरणात्" तदन्तरेण-वचनान्तरेण सर्ववचनानां निराकरणात् , भवतु नाम वचनानां विरोधस्तथापि वचनबहुमानात् प्रवृत्तस्य यतः कुतोऽपि वचनादिष्टसिद्धर्भविष्यतीत्याशङ्कय व्यतिरेकतः प्रतिवस्तूपन्यासमाह-"न" नैव "हिः” यस्माद् “अदुष्टम्" अनपराध "ब्राह्मणं” द्विजं "प्रव्रजितं वा" भागवतादिकम् “अवमन्यमानः" अनाद्रियमाणो "दुष्टं वा" सदोष “ मन्यमानो" वचनकरणादिना “ तद्भक्तो" ब्राह्मणभक्तः प्रबजितभतो वा " इति " एवमुच्यते कुशलैः, अतो दुष्टभक्त एव ब्राह्मणादिभक्तः, एवमत्रापि योजना कार्या, एवं तटदुष्टात्ततः प्रवर्तिष्यत इत्याशङ्कयाह-न च "दुष्टेतरावगमो” दुष्टादुष्टयोरगवमो विचारमन्तरेणातो विचार आश्रयणीयो, विचारश्च युक्तिगर्भो, न च युक्तिः प्रमाणं, परमते वचनमात्रस्यैव प्रमाणत्वाभ्युपगमाद् “इति” एवं ब्राह्मणादिन्यायेन आलोचनीयमेतत्-वचनमात्रात्प्रवर्तनमिति।।
तदुभूतादेरपि तथादर्शनाभावात् , तत्र चोत्तारणे दोषसम्भवात् , तथा कर्तुमशक्यत्वात् , प्रयासनैष्फल्यात् , न चोपायमार्गणमपि न विचाररूपं, तदिहापि विचारोऽनाश्रयणीय एव,
पं०...तदालम्बनेत्यादिः, "तदुद्भूतादेरपि” तस्मिन्-कूपे उद्भूतो-मत्स्यादिरादिशद्वाद. तद्भूतोऽपि प्रयोजनवशात्तत्रैव बद्धस्थितिस्तस्यापि “ तथादर्शनाभावात्" पतनकारणमविचायवोत्तारणोपायमार्गणस्यानवलोकनाद्, एवं च तथादर्शनादिति हेतोः प्रागुक्तस्य प्रतिज्ञैकदेशासिद्धता, अथ तदुद्भूतादिरप्युत्तारयिष्यते, ततो न हेतोः प्रतिज्ञैकदेशासिद्धता इत्याह-"तत्र च" तदुद्भूतादेरपि उत्तारणे “ दोषसम्भवात्" मरणाद्यनर्थसम्भवात् , तथेति हेत्वन्तरसमुच्चये " कर्तुम्” उत्तारणस्य तदुद्भूतादेः, अशक्यत्वात् , हेतुमाह-" प्रयासनैष्फल्यात्" प्रयासस्यप्रयत्नस्य नैष्फल्याद्-उत्तारणीयोत्तारलक्षणफलाभावात् ,अभ्युच्चयमाह-" न च” नैव "उपायमार्गणमपि " उत्तारणोपायगवेषणमपि परोपन्यस्तं न विचाररूपं, किन्तु विचाररूपमेव, यदि नामैवं ततः किमित्याह-" तत्" तस्माद् "इहापि” उत्तारणोपाये, आस्तां तावत्प्रकृतवचनार्थे "विचारो" विमर्शः "अनानयणीय एव" न विधेय एव परमते, अथातीन्द्रियत्वात् युक्तेरविषयो वचनार्थः, इदं च कूपपतितोत्तारणं तथाविधं न भविष्यतीत्याशङ्कयाह
दैवायत्तं च तद्, अतीन्द्रियं च दैवमिति युक्तरविषयः, शकुनाद्यागमयुक्तिविषयतायां तु समान एव प्रसङ्ग इतरत्रापीति, तस्माद्यथाविषयं त्रिकोटिपरिशुद्धविचारशुद्धितः प्रवर्तितव्य मित्युक्तं च
246