________________
ललितविस्तरासटोका हारेण परवर्णाचारकरणम् , आदिग्रहणात् स्वाचारपराचारानुवृत्तिरूपसंस्कारः " असङ्गतम्" अयुक्तं " नीत्या " न्यायेन, तामेवाह-ब्रह्मणि-परमपुरुषलक्षणे वर्णाभावात्-ब्राह्मणादिवर्णविभागाभावात् , मा भूद्ब्रह्मणि वर्णविभागः तदंशेष्वात्मसु भविष्यतीत्याशङ्कयाह-"क्षेत्रविदां द्वैतभावाच्च” क्षेत्रविदोऽपि मुक्तामुक्तभेदेन द्वैविध्यमेवाश्रिताः अतस्तेष्वपि न वर्णविभागोऽतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति ॥५॥ " इत्यादि "
___ एवमन्यदपि वचनं गृह्यते, “एतदपि" अनन्तरोक्तं, किं पुनः परम्परोक्त प्राच्यमित्यपिशद्वार्थः, “प्रतिक्षिप्त” निराकृतं, कुत इत्याह-"श्रद्धामात्रगम्यत्वाद्" रुचिमात्रविषयत्वात्, ननु वचनादित्युक्तं तत्कथमित्युच्यत इत्याह
दृष्टेष्टाविरुद्धस्य वचनस्य वचनत्वाद्, अन्यथा ततः प्रवृत्त्यसिद्धेः, वचनानां बहुत्वात् मिथो विरुद्धोपपत्तेः, विशेषस्य दुर्लक्षत्वात् , एकप्रवृत्तेरपरबाधितत्वात् , तत्यागादितरप्रवृत्तौ यदृच्छा, वचनस्याप्रयोजकत्वात् ,
पं०..." दृष्टेत्यादि, " " दृष्टेष्टाविरुद्धस्य" दृष्टम्-अशेषप्रमाणोपलब्धमिष्ट-वचनोक्तमेव तयोरविरोधेनाविरुद्धस्य वचनस्य “ वचनत्वाद् ” आगमत्वात् , कुत इत्याह-“ अन्यथा " उक्तलक्षणविरहे "ततो" वचनात् "प्रवृत्त्यसिद्धेः" हेयोपादेययोर्हानोपादानासिद्धः, कुत इत्याह" वचनानां" शिवसुगतसुरगुरुप्रभृतिप्रणीतानां "बहुत्वाद् " व्यक्तिभेदेनैव, ततः किमित्याह“मिथः” परस्परं “ विरुद्धोपपत्तेः" नित्यानित्यादिविरुद्धार्थाभिधानात् , तर्हि विशिष्टादेव ततः प्रवृत्तिरित्याह-"विशेषस्य" दृष्टेष्टाविरोधलक्षणस्य विचारमन्तरेण “दुर्लक्षत्वात् " सर्ववचनेभ्यो युगपत्प्रवृत्तिरसम्भविन्येवेति एकत एव ततः प्रवर्तितव्यं, तत्र च “एकप्रवृत्तेः" एकतो वचनात् प्रवृत्तेः-उक्तलक्षणायाः "अपरबाधितत्वाद्" अपरेण-वचनेन निराकृतत्वात् , ततः किमित्याह"तत्त्यागाद्" बाधकवचनत्यागाद् “इतरप्रवृत्तौ” बाध्यमानवचनप्रवृत्तौ “यदृच्छा" स्वेच्छा, कथमित्याह-“वचनस्य” कम्यचिद् “ अप्रयोजकत्वाद् ” अप्रवर्तकत्वाद्, एतदपि कुत इत्याह
तदन्तरनिराकरणादिति, न ह्यदुष्टं ब्राह्मणं प्रव्रजितं वा अवमन्यमानो दुष्टं वा मन्यमानः तद्भक्त इत्युच्यते, न च दुष्टेतरावगमो विचारणमन्तरेण, विचारश्च युक्तिगर्भ इत्यालोचनीयमेतत् , कूपपतितोदाहरणमप्युदाहरणमात्रं, न्यायानुपपत्तः,
245