________________
ललित विस्तरासटीका
तद्गतानां विभागानामंशानां - व्यक्तिविशेषाणां ( मुक्त - लीनात्मनां ) युक्तिनीत्या आत्मत्वात्क्षेत्रज्ञत्वात् परब्रह्मणोऽनेकत्वमेव सांशत्वमपि सिद्धमेव.
,
' एतेन ' - ब्रह्मनिरासेन - परम पुरुषस्यैकत्वा विभागत्वनिरासेन, यदाह - कश्विदेतत् तदपि प्रतिक्षिप्तमिति योगः, उक्तमेव दर्शयति
"6 परमब्रह्मण एते क्षेत्रविदोऽंशा व्यवस्थिता वचनात् । वह्निस्फुलिङ्गकल्पाः समुद्रलवणोपमास्त्वन्ये ॥१॥ सादिपृथक्त्वममीषामनादि वाऽहेतुकादि वा चिन्त्यम् । युक्त्या ह्यतीन्द्रियत्वात् प्रयोजनाभावतश्चैव ॥ २॥ कूपे पतितोत्तारणकर्त्तुस्तदुपायमाणं न्याय्यम् । ननु पतितः कथमयमिति हन्त तथादर्शनादेव ॥ ३ ॥ भवकूपपतितसत्त्वोत्तारणकर्त्तुरपि युज्यते ह्येवम् । तदुपायमार्गणमलं वचनाच्छेषव्युदासेन ॥ ४ ॥
"
पं०..."परमब्रह्मे” त्यादिरार्या, परमब्रह्मणः - नः- पुरुषाद्वैतलक्षणस्यैते - शास्त्रलोकसिद्धाः क्षेत्रविदो - जीवाः अंशा - विभागा व्यवस्थिताः - प्रतिष्ठिताः, कुतः प्रमाणादित्याह - " वचनाद् आगमात् ते च द्विधा इत्याह- वह्निनस्फुलिङ्गकल्पाः - पृथगेव विचटनेन संसारिणः, समुद्रलवणोपमास्त्वन्ये - यथा समुद्रे लवणमपृथगेव लीनतया व्यवस्थितम् एवं मुक्तात्मानः प्राग्विचटनात् संसारिणोऽपि च ब्रह्मणीति ॥१॥
"
सादीत्याद्यार्यायं सुगममेव परं " हन्त तथादर्शनादेवेति” हन्तेति प्रत्यवधारणे प्रत्यवधारयत तथादर्शनादेव - कूपपतनकारणविचारणमन्तरेणोत्तरणोपायमार्गणस्यैव दर्शनात्, " शेषव्युदासेने ” ति वचनव्यतिरिक्तप्रमाणपरिहारेण साधनादिविचटनविचारपरिहारेण वा ॥ एवं चाद्वैते सति वर्णविलोपाद्यसङ्गतं नीत्या ।
ब्रह्मणि वर्णाभावात् क्षेत्रविदां द्वैतभावाच्च || ५ ||" इत्यादि,
एतदपि प्रतिक्षिप्तं, श्रद्धामात्रगम्यत्वात्,
पं० ...“एवं चे” त्यादिरार्या, एवमिति वचनप्रमाणतः, चः- समुच्चये, अद्वैते-आत्मनामेकीभावे सति वर्णविलोपादि - वर्णा- ब्राह्मणक्षत्रिय विदशुद्रलक्षणास्तेषां विलोपः - प्रतिनियतस्थाचारपरि
244