________________
ललितविस्तरासटीका
व्यवच्छित्तौ -क्षये सत्येव सहजसंसारपर्यायस्य क्षय एव जितभयत्वस्वस्वभाव - रूपत्वं भवति, तदेव जितभयत्वं निरुपचरितं तात्त्विकं ( ब्रह्मलयरूपं जितभयत्वमारोपितं कथ्यते, यतः पुनः (पश्चात् ) ब्रह्मसत्तातो जितभयत्व - मुक्तत्वस्याभावस्य ( विचनस्य भयं स्थितम् )
अर्थात् पूर्वोक्त- शिवाचला दिस्थानप्राप्तिन्यायद्वारा भव (य) योग्यतारूप - शक्तिरूपेणाऽपि (भव (य) योग्यतारूपशक्तिक्षये सति साक्षाद्भयभावक्षयः सुतरामागत एवं तंत्र कः प्रश्नः ? स्वाभाविकभवभावव्यवच्छित्तौ हि स्वतन्त्रमोक्षत्वेन भूयोभवभवनस्य योग्यतायाः सर्वथा नष्ट - त्वात् ) शक्तिरूपेणाऽपि सर्वथा - सर्वप्रकारैः, भवपरिक्षय:- भयनिवृत्तिः, अस्माद्धेतोरेतद्-जितभयत्वं निरुपचरितं - तात्त्विकं जितभयत्वं ज्ञेयम् ।
C
परमतपरिहारः==सकृद्विचटनादिः = एकवारं परमब्रह्मणः सकाशाद्विभक्तिभाव (पृथग्भाव) रूपस्वभावत्व कल्पनया अद्वैतेऽपि ' परमब्रह्मलक्षणे, अद्वैते किं पुनः द्वैते । एवमेव - भवदभ्युपगमन्यायेनैव 'अदोषः ' उपचरितजितभयत्व - लक्षणदोषाभावः इति न न्याय्यं - न्यायानुगतं वचः, कुत इति चेदुच्यते अनेकदोषाणामुपपत्तिर्भवति, तथाहि = 'तत्' सकृदेकवारं विचटनंविभागः ब्रह्मणः शकाशात् क्षेत्रज्ञान - मुक्तात्मनां किं शुद्धात् - सकलदोषरहितात्, ब्रह्मणः विचटनं भवति.
अथवा किं अशुद्धात् = सकलदोषसहितात् ब्रह्मणो विचटनं भवतीति विकल्प द्वयमर्थाद् ब्रह्मणः - परम पुरुषाद्वैतरूपात् 'पुरुषवेदं' इत्वादिवेदवाक्यनिरूपितात् सकाशाद् विचटनमिति विज्ञेयम् । सकृविचनस्य प्रकारद्वये दोषदर्शनम् =
(१) प्रथमविकल्पे यदि शुद्धात् - सकलदोषरहिताद् परमपुरुषरूपब्रह्मणः तेषां विचटनं कुर्वतां क्षेत्रज्ञानां कुतश्चिदिह - संसारेऽशुद्धिः, यदशुद्धिक्षयार्थं यमनियमाभ्यासो योगिनां भवति.
(२) द्वितीयविकल्पे - अशुद्धात् सकलदोषसहिताद् ब्रह्मणः क्षेत्रज्ञानां विचटने तु पुनः तत्र ब्रह्मणि ( परमब्रह्मणि क्षेत्रज्ञानामभेदरूपो ) लयो निरर्थको, यतः अशुद्ध ब्रह्मणः अशुद्धिजन्यस्य क्लेशस्य तत्रापि—ब्रह्मण्यपि मुक्तानां प्राप्तिर्भवति, दोषद्वयस्येष्टापत्तौ, एवं परमब्रह्मणः सकाशात्क्षेत्रज्ञानां (मुक्तात्मनां ) विचटने च लये, एकमद्वितीयं चाविभागं - निरवयवं नैव तत्परमब्रह्म भवति, अर्थाद् विपरीतं भवति यदुत तत् परमब्रह्म, अनेकं च सावयवं भवतीति,
'अनेकत्वे च ' - क्षेत्रज्ञापेक्षया (मुक्तात्मापेक्षया) परमब्रह्मणः परमताङ्गीकरणमेवाभ्युपगतं स्यात्, यतः तत्परब्रह्मणः ( पुरुषाद्वैतलक्षणस्य ) आत्मसामान्य (आत्मत्व - सत्तारूपस्य ) अर्थात्
243