________________
ललितविस्तरासटीका
__ वेदान्तिमते सर्वथा मुक्तात्मसु जितभयत्वस्याऽनुपपत्तिः, जैनमते सर्वथा जितभयत्वस्योपपत्तिर्दश्य॑ते तत्र हीत्यादिः तत्र-अद्वैते हि-यतः क्षेत्रज्ञाः-संसारिणः परमब्रह्मविस्फुलिङ्गकल्पाः (क्षेत्रज्ञः-क्षेत्र देहमानं जानाति-चेतयते शरीरप्रमाणत्वात् क्षेत्रज्ञः । जीवात्मा शरीरसम्बन्धेन ज्ञानवान् । यथाऽहं त्वमित्यादि । क्षेत्र-शरीरं आत्मत्वेन जानातीति क्षेत्रज्ञ इति व्युत्पत्तिः । 'इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते, एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः' गीता १३/१)
(यथाऽमेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वलोकाः सर्वे देवाः सर्वाणि भूताणि सर्वे एवात्मनो व्युच्चरंति ॥ श्रुतिः ॥ बृह. उप. २/१/२०) ___ममैवांशो जीवलोके जीवभूतः सनातनः' (वेदान्तदर्शन-शाखारूप वल्लभवेदान्ताचार्या अभूवन् ये शुद्धाद्वैतस्य मुख्यप्रवर्तका गण्यन्ते, तेषां मते जगदिदं परमब्रह्मणोऽविकारिपरिणामरूपं. परमब्रह्म, अंशिरूपं तथा जीवोऽजीवश्च ब्रह्मणोंऽशरूपोऽवयवरूपः, जीवस्तु भक्तिगुणाश्रयेन परमब्रह्म प्राप्नोति, वल्लभस्य समय ईसाया पञ्चदशशताब्या मन्यते ) परमब्रह्मणःपरमपुरुषस्यावयवा एवेतिभावः, यद्येवं स्थितिस्ततः, तेषां च-क्षेत्रज्ञानां (जीवात्मरूपमुक्तात्मना) ततः-परमब्रह्मणः-पृथग्भावेन-विघटनेन ब्रह्मसत्तात एव-ब्रह्मसत्ताया एव सकाशात् ( पश्चात अपेक्षातः) कश्चिद्-कालादिः अपरः-अन्यो हेतुः-निमित्तम् इति,
__(एवं कथनेनाऽत्र ब्रह्म च कालादिरित्येवं द्वैतपदार्थसिद्धिज्ञैया) यदि जीवात्ममुक्तात्मनां ब्रह्मतो विघटने ब्रह्मसत्तातोऽन्यकालादिरूपनिमित्तस्याऽनभ्युपगमे मात्रब्रह्मसत्ताया एव निमित्तत्वाऽभ्युपगमे, सा ब्रह्मसत्ता तु परब्रह्मणि मुक्तात्मनां लयभावे सत्यपि पूर्ववत्
तथाविधैव-ब्रह्मतो विघटने निमित्तताऽविच्छिन्नैवार्थादेकवारमिव भूयोऽपि मुक्तात्मनः ब्रह्मसत्तातो विघटनेन संसारसत्ताया वल्गनात्पुनः संसारभ्रमणप्राप्तिप्रसंग आपतेत्। अर्थात् सर्वथाऽचलत्वरूपाभयत्वरूपं जितभयत्वं कथं घटेत । मुक्तात्मसु भवाधिकारोऽक्षीणोऽस्ति, ततो भवाधिकारक्षयरूपं जितभयत्वं कथमुत्पद्येत कथं प्राकट्यमापद्यतेति यतः पूर्ववद् विचटनहेतुभूता ब्रह्मसत्ता विद्यमानाऽस्ति ।
तात्त्विकजितभयत्ववर्णनम्= सहजभवभावव्यवच्छित्तौ तु'सहजस्य (कस्मादपि ब्रह्मविचटनादेः कुतोऽपि, अप्रवृत्तस्य-ब्रह्मतो विचटनद्वारा यः संसारपर्यायः स सहजभवभावो नास्ति परन्तु आरोपितोऽस्ति-कल्पितोऽस्ति ) जीवसमानकालमाक्निो भवभावस्य-संसापयस्य
242