________________
ललितविस्तरासटीका पुनः ब्रह्मणि "लय" उक्तरूपः “अपार्थकः" निरर्थकः, तदशुद्धिजन्यस्य क्लेशस्य तत्रापि मुक्तानां प्राप्तेः, तदभ्युपगमेनापि ब्रह्म दूषयन्नाह-"नच" नैव "एवं" परमब्रह्मणः क्षेत्रज्ञानां विचटने लये चैकम् -अद्वितीयं अविभागं च-निरवयवं तत्-परमब्रह्मति, किन्तु १ विपर्यय इति, एवमपि किमित्याह-"अनेकत्वे च" क्षेत्रज्ञापेक्षया परमब्रह्मणः, परमताङ्गीकरणमेवाभ्युपगतं स्यात् , कुत इत्याह-"तद्विभागानामेव" तस्य-परमब्रह्मणः आत्मसामान्यरूपस्य विभागानां-व्यक्तिरूपाणां "नीत्या" युक्त्या "आत्मत्वात्" क्षेत्रज्ञत्वात् , “एतेन" ब्रह्मनिरासेन, यदाह कश्चिदेतत् तदपि प्रतिक्षिप्तमिति योगः उक्तमेव दर्शयति
टी०....एवं च द्वात्रिंशत्पदानां विवरणकरणानन्तरं एवम्भूता एव–पूर्वकथितसकलविशेषणविशिष्टाः, एव परममहत्त्वशालिनोऽर्हन्तो भगवन्त एव प्रेक्षावतां ( प्रतिभाशालिनां ) नमस्करणीयाः-पूजनीयाः-स्तोतव्या एव, किञ्च 'नमोत्थुणं अरिहंताणं भगवंताणं' रूपादिभागे नमःशब्दप्रयोगः कृतः, “संपत्ताणं नमो' इति पर्यन्ते नमःशब्दप्रयोगः अर्थादाद्यन्तसङ्गतो नमस्कारो मध्यव्यापी 'सयंसंबुद्धाणं इति पदादारभ्य सव्वदरिसीणं' पर्यन्ताः सर्वा मध्यस्थाः सम्पदः, तथा सम्पदन्तर्गतानि सर्वाणि पदानि मध्यस्थानि गणेयानि, अतः सर्वमध्यवर्तिसम्पत्पदैः सहनमस्कारोऽर्थान्नमः शब्दो व्यापको (नमः पदस्य नमः पदरहितेषु सर्वेषु पदेषु अनुवृत्तिज़ैया, यत आद्यन्तसंगतो नमस्कारः मध्यव्यापी-मध्यस्थपदेषु पुनः पुनरनुवर्तते इति ) ज्ञेया इति भावना ( संस्कारो विचारो वा ज्ञेयः ) किञ्च जितभया-भयविजेतारोऽपि एते पूर्वविवेचित सकलविशेषणविशिष्टा जिनेश्वरा देवा एव नान्य इति प्रतिपादयन्नाह
'नमो जिनेभ्यो जितभयेभ्यः' नमः पदस्य तथा जिनपदस्य विवरण पूर्ववज्ज्ञेयम् , एवं च जिनाः (जिनत्वविशिष्टात्मानः) भवप्रपञ्चानिवृत्तेः (संसाराधिकारस्य निवृत्तेः) ( जिनेषु सर्वभयप्रधानमरणभयस्य आत्यन्तिकध्वंसे सति तत्त्वतः सर्वथेहलोकादिभयसप्तकध्वंस एव, यतो निना आत्मानः परमस्वास्थ्यस्वरूपस्वस्थतावन्तो भवन्तीति) भयस्य क्षयवन्तो-क्षपितभया जिनाः कथ्यन्ते, (उपशमरूपजयस्यापेक्षया सत्तायां भयसत्तायां सत्यां उपशान्तभया जितभया उच्यन्तेऽतोऽत्र क्षायिका क्षयरूपजयापेक्षया सत्तारूपेणाऽपि भयस्य क्षीणत्वेन क्षपितमोहा एवात्र 'जितभयाः' सम्यग् ज्ञेयाः).
तथा च पूर्वकथनस्याशयेन-भवप्रपञ्चक्षयरूपभयविजयस्य (भावेन जितभयत्वस्य) निर्देशेनाद्वैतमुक्तव्यवच्छेदे=परमब्रह्मरूपेऽद्वैते सति, (वेदान्तमतेऽभिमतं,एकमेव परमब्रह्माऽस्ति ) अतः क्षीणभवा मुक्तास्तेषां व्यवच्छेदो-निरासः कृतः,
241