________________
ललितविस्तरासटीका
ततः किमित्याह – " एवं " भूयः पृथक्त्वापत्त्या हि : " यस्माद् “भूयो भवभावेन " पुनः संसारापत्त्या "न" नैव "सर्वथा" शक्तिक्षयेणापि "जितभयत्वम्" उतरूपं, यथा स्यात्तथाह - “सहजभवभावव्यवच्छित्तौ तु” सहजस्य - ब्रह्मविचटनादेः कुतोऽध्यप्रवृत्तस्य जीवतुल्यकालभावन भवभावस्य-संसारपर्यायस्य व्यवच्छित्तौ-क्षये, पुनः किमित्याह - " तत्तत्स्वभावतया” तस्याःसहजभवभावव्यवच्छित्तेर्जितभयत्वस्वभावतया भवत्येतदित्युत्तरेण सह सम्बन्धः कीदृशमित्याह"निरुपचरितं तात्त्विकं, कुत इत्याह - " उक्तवत्" प्रागुक्तशिवाचलादिस्थानप्राप्तिन्यायेन “ शक्तिरूपेणापि” भययोग्यस्वभावेनापि " किं पुनः साक्षाद्भयभावेन, अत एवाह - "सर्व्वथा " सर्व्वप्रकारैः
भयपरिक्षय इति निरुपचरितमेतत् न सकृद्विचटनस्वभावत्वकल्पनयाऽद्वैतेऽप्येवमेवादोष इति न्याय्यं वचः, अनेकदोषोपपत्तेः तथाहि तद्विचटनं शुद्धादशुद्धाद्वा ब्रह्मण इति निरूपणीयमेतत्
ܕ
पं०...." भयपरिक्षयो” भयनिवृत्तिः "इति” अस्माद्धेतोः "एतत् " जितभयत्वमिति । अत्रैव परमतमाशङ्कय परिहरन्नाह – “न” नैव "सकृद्विचट नस्वभावत्वकल्पनया ” एकवारं परमब्रह्मणः सकाशाद्विभक्तिभावस्वभावत्वकल्पनया "अद्वैतेऽपि " परमब्रह्मलक्षणे किं पुनः द्वैते, “एवमेव” भवदभ्युपगमन्यायेनैव " अदोषः " उपचरितं जितभयत्वमेवं लक्षणदोषाभावः “ इति” एवंरूपं “न्याय्यं” न्यायानुगतं "वचो” वचनं, कुत इत्याह- अनेकदोषोपपत्तेः, तामेव भावयति, “ तथाहीति” पूर्वोक्तभावनार्थः “तत्” सकृद्विचटनं विभागो ब्रह्मणः सकाशात् क्षेत्रविदामिति गम्यते, "शुद्धात् " सकलदोषरहिताद् " अशुद्धाद्” इतररूपात् वाशब्दो विकल्पार्थो, "ब्रह्मणः” परमपुरुषाद्वैतरूपात् " पुरुष एवेद ” मित्यादिवेदवाक्य निरूपिताद् " इति" एवं “निरूपणीयं” पर्यालोच्यं, “एतत्" सकृद्विचटनं, प्रकारद्वयेऽपि दोषसम्भवाद्, दोषमेव दर्शयति
शुद्धवचने कुतस्तेषामिहाशुद्धिः, अशुद्धविचटने तु तत्र लयोSपार्थकः, न चैवमेकमविभागं च तदिति, अनेकत्वे च परमताङ्गीकरणमेव तद्विभागानामेव नीत्या आत्मत्वादिति, एतेन यदाह
पं.... शुद्धाद्ब्रह्मणो विचटने कुतः १, न कुतश्चिदित्यर्थः, “तेषां" क्षेत्रविदाम् " इह " संसारेऽशुद्धिः, यत्क्षयार्थं यमनियमाभ्यासो योगिनामिति, “ अशुद्धविचटने तु” अशुद्ध द्वि
240