________________
ललितविस्तरासटीका नित्यत्वस्य जैनशासने विहितत्वेन, संसारपर्यायपरित्यागरूपव्ययस्य, च सिद्धत्वपर्यायान्तरप्राप्तिरूपोत्पादस्य सत्त्वेऽपि, आत्मनि केवलज्ञानादिरूप-परमचैतन्यस्वरूप-ध्रौव्यं सदा वर्तत एवात एवात्मा, क्षेत्ररूपाकाशस्य सर्वत्र भागेऽव्यापकत्वेन 'क्षेत्रासर्वगतः' कथ्यते, किन्चैकाऽवस्थां स्वक्त्वावस्थाऽन्तरगामित्वेन परिणामी कथ्यतेऽतः शिवाचलादिविशेषणविशिष्टलोकान्तक्षेत्रलक्षणसिद्धिगतिनामकस्थान-संप्राप्तेः सकलकर्मक्षयपूर्वक-स्वस्वरूपाऽवस्थानरूपसिद्धत्व-परिणामान्तर प्राप्तेः सम्भव एवेति भावनीयम् .. _ 'शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिसिद्धि गतिनामधेयं स्थानं सम्प्राप्तेभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः'
एवंभूता एव प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गन्तश्च नमस्कारो मध्यव्यापीति भावना, जितभया अप्येत एव नान्ये इति प्रतिपादयन्नाह-"नमो जिनेभ्यः जितभयेभ्यः” नम इति पूर्ववत् , जिना इति च, जितभयाः-भवप्रपञ्चनिवृत्तः क्षपितभया इत्युक्तं भवति, अनेनाद्वैतमुक्तव्यवच्छेदः, तत्र हि क्षेत्रज्ञाः परमब्रह्मविस्फुलिङ्गकल्पाः, तेषां च ततः पृथग्भावेन ब्रह्मसत्तात एव कश्चिदपरो हेतुरिति,
पं०..."अनेनेत्यादि" अनेन भावतो जितभयत्वनिर्देशेनाद्वैते-परमब्रह्मलक्षणे सति मुक्ताःक्षीणभवास्तेषां व्यवच्छेदो निरासः, कृत इति गम्यं, कुत इत्याह-"तत्र" अद्वैते “हिः" यस्मात् "क्षेत्रज्ञाः" संसारिणः “परमब्रह्मविस्फुलिङ्गकल्पाः" परमब्रह्मणः-परमपुरुषस्यावयवा एवेति भावः, यदि नामैवं ततः किमित्याह-"तेषां च" क्षेत्रज्ञानां “ततः” परमब्रह्मणः "पृथग्भावेन" विघटनेन "ब्रह्मसत्तात एव" ब्रह्मसत्ताया एव सकाशात् “कश्चित्" कालादिः “अपर" अन्यो “हेतुः" निमित्तम् “इति” एवं
____सा तल्लयेपि तथाविधैव, तद्वदेव भूयः पृथक्त्वापत्तिः, एवं हि भूयो भवभावेन न सर्वथा जितभयत्वं, सहजभवभावव्यवच्छित्तौ तु तत्तत्स्वभावतया भवत्युक्तवत् शक्तिरूपेणापि सर्वथा
पं०..."सा" ब्रह्मसत्ता "तल्लयेऽपि" तस्मिन-ब्रह्मणि मुक्तात्मनो लयेऽपि "तथाविधैव" विचटनहेतुरेव "तद्वदेव" एकवारमिव “भूयः" पुनः “पृथक्त्वापत्तिः" विचटनप्रसङ्गः इति,
239