________________
ललितविस्तरासटीका
रूपपरिणामान्तरगमनेन (समस्तलोकव्याप्तसूक्ष्मनिगोदादिव्यवच्छेदाय० 'सम्यग' शब्दस्योपयोगः, यतः सकललोक-व्यापकत्वेन सूक्ष्मनिगोदादि विवक्षितक्षेत्रेऽपि प्राप्ताः सन्ति, तस्मात् तद्व्यवच्छेदाय 'संप्राप्ताः इति कथ्यते) प्राप्ताः-संप्राप्ताः, (परिणाम इत्युक्ते कोऽथः ! उच्यतेअर्थान्तर-धर्मान्तर-प्राप्तिः, परन्तु एकान्ते, एकधर्मावस्थान-अथवा तद्धर्मस्य सर्वथा विनाशाभावः, स विद्भिः परिणामः कथितः, यथा संसारिजीवस्य देवत्व परित्यज्य मनुष्यत्व, अजीवस्य परिणामः स्थिरत्वादिधर्मतो गत्यादिधर्मे गमनं अर्थात् , एकावस्थां त्यक्तवाऽवस्थान्तरे गमनं परिणामः ।।) न विभूनां-सर्वाकाशव्यापिनां नित्यानां (कूटस्थनित्याना-अप्रच्युतानुत्पन्नस्थिरक स्वभावानां) चै प्राप्तिसम्भवः ।
यद्यात्मनां विभुत्वेन (सकलाकाशव्यापित्वेन) नित्यत्वेन मान्यतायां सिद्धिगतिनामकस्थानस्य सम्प्राप्तेः-कृत्स्नकर्म क्षयपूर्वकस्वस्वरूपावस्थानरूप सिद्धत्वपर्यायान्तर-प्राप्तिरूप-सम्प्राप्तेः असम्भवः ।
एतद्विषयकं विवरणं क्रियते='न विभूना' मित्यादि वैशेषिकाश्च नैयायिकाः, प्रत्येकात्मा विभुः सर्वाकाशव्यापी यत्र यत्राकाशं तत्र तत्र सर्वत्र स्थाने प्रत्येकात्मा व्याप्तोऽस्ति, नित्यःअप्रच्युतानुत्पन्नस्थिरैकस्वभाववान् अस्ति, एवं प्रतिपादयन्ति,
___जैनास्तु यत्र देशे (यद्देशावच्छेदेन) यस्य गुणानां वा धर्माणां प्रत्यक्षादि-प्रमाणेरनुभवो जातो भवेत् , तत्र विवक्षित-देशे (तद्देशावच्छेदेन) तस्य पदार्थस्योपलब्धि भवति, अन्याऽविवक्षितदेशे नहि. ईदृशोऽबाध्यः सिद्धान्तो (व्याप्तिः) अस्ति, अतः शरीरे (शरीरदेशावच्छेदेनैव) आत्मनश्चतन्याद्या गुणा अनुभूयन्ते, शरीराबहिः प्रदेशे नहि अत एव शरीरपरिमाण आत्माऽस्ति, (विवक्षितशरीररूपदेशावच्छिन्न आत्मा प्रतीयते मन्यते च) ।
___ अन्यच्च यदप्रच्युतानुत्पन्नैकस्थिरस्वभाववान् नित्योऽस्तीति. नैयायिकवैशेषिकमतमस्ति तदयुक्तम् , यत एतादृशः कश्चित्पदार्थों नास्ति, यः पर्यायाऽपेक्षया, उत्पत्तिविनाशरहितोऽस्ति च सदैकरूपो भवेत् , अतः (द्रव्यापेक्षया) पदार्थस्वरूपाऽव्ययत्वं नित्यत्वं (तभावाऽव्ययं नित्यं, तत्त्वा. सू. अ. ५ सू. ३०) एतज्जैनमतं समञ्जसं यद् उत्पादविनाशसत्त्वे, स्वस्वरूपं अजहत् पदार्थों नित्यः, अतः श्रीहरिभद्रसूरीश्वरमहाराजो वैशेषिकादि ज्ञापयति यद् विभुनित्यात्मनां सिद्धिगतिनामकस्थानप्राप्तेः-सकलकर्मक्षयपूर्वकस्वस्वरूपाऽवस्थानरूप - सिद्धत्वपर्यायान्तरपरिणामान्तर-प्राप्तेः असम्भवः, यतः सर्वात्मनां सर्वगतत्वेन-सर्वाकाशव्यापित्वेन सदा स्थिरैकस्वभावत्वेन-नित्यत्वेन व्याप्तिः सर्वत्राऽस्ति. तथा चोत्पादव्ययसत्त्वेऽपि स्वस्वरूपाऽपरित्यागरूप
238