________________
ललितविस्तरासटीका मनन्तं-अन्तशून्यं, यतः केवलज्ञानादिरूपकेवलस्वभावस्यानन्तत्वं, व्यवहारनयसम्मतसिद्धिक्षेत्ररूपस्थानमनन्तं यनः केवल-शुद्ध-सिद्धात्मनोऽनन्तत्वं (स्थानस्थानिनोरभेदोपचारात् ).
(यत्र स्थाने एको जीवो मोक्षं गतः, तत्र स्थानेऽन्येऽपि बहवो जीवा मोक्षं गता भवन्ति, ते च सर्वानन्तसिद्धा निश्चयतो लोकस्योर्ध्वान्तस्पर्शिनो भवन्ति अर्थात् सम्पूर्णैकसिद्धस्यावगाढक्षेत्रेऽन्येऽनन्तसिद्धा (तावत्याऽवगाहनया) अवगाढाः सन्ति.)
(५) यथा स्थानं शिवमचलमरुजमनंतमस्ति तथाऽक्षयं-नास्य क्षयो विद्यत इत्यक्षयं, विनाशकारणाभावात् सततमनश्वरमित्यर्थः नैरन्तर्येणानश्वरमित्यर्थः,
(६) यथा यत्स्थानमक्षयं तथाऽव्यायाधं, अविद्यमानव्यावाध=पीडामात्रस्य सर्वथाऽभाव इत्यर्थः (स्वाभाविकानन्तसुखमयं यतः स्वस्वरूपमात्मस्वभावत्वेन अमूर्त-अरूपित्वेनामूर्ते पीडाया अभावः, स्वभावे च व्यायाधाया अभावः) दुःखमसातवेदनीयकर्मजन्यमस्ति, सांसारिकसुखं सातवेदनीयकर्मजन्यमस्ति, जन्यत्वेन सान्तं दुःखरूपं दुःखजनकं पररूपं तथा चात्मिकमनन्तानन्दरूपं, अनन्तसुखं प्रतिबन्धकवेदनीयकर्मणः सर्वथा क्षयभावेन, स्वाभाविकानन्तसुखमयमव्यावाधं स्थान)
___ (७) अपुनरावृत्ति यथा स्थानं शिवाद्यव्यावाधरूपमस्ति तथा-अपुनरावृत्ति अस्तियस्मात्पुनर्भवार्णवावताररूपावृत्ति नास्तीति अर्थात् तथा तथा तेन तेन प्रकारेण (संसारावस्थावत् ) संसारसागरे पुनरावृत्तिरावर्त्तनं करणं गमनागमनं पुनरावृत्तिः कथ्यते यत्स्थानात् स्वशासन-तीर्थस्य ध्वंसे सत्यपि सर्वथा संसार-बीजकर्मलेपरहितानां सिद्धानां संसारसागरे पुनरखतार-जन्मग्रहण-पुनरावृत्ति नास्ति, अर्थादपुनरावृत्ति कथ्यते.
(८) यथेदं प्रस्तुत स्थानं शिवादिरूपं तथा सिद्धिगतिनामधेयं वर्तते, तथा-सिद्धिःयत्र सिद्धौ प्राणिनः (केवलज्ञानादिभावप्राणवन्तः प्राणिनः) सिध्यन्ति-निष्ठितार्थाः (कृतार्थाः समाप्तकृत्या) भवन्ति, सा लोकान्तक्षेत्रलक्षणा सिद्धिः, सैव (प्राणिभिः) गम्यमानत्वाद्गतिः, (सकल-कर्मक्षयानन्तरं सिद्धत्वपर्यायं प्राप्य, सनातनः परमेश्वरः परमात्मा भवेत् , तदनन्तरं अयोगिना भगवता चतुर्दशरज्जुलोकान्तभागे गम्यते, अत एव गम्यमानत्वात् सिद्धिगतिः कथ्यते.) सिद्धितिरेवं नामधेयं (प्रशस्तं नाम नामैव वा) यस्य तत्तथाविधं, स्थानं पूर्वोक्तमेव । तत्स्थान व्यवहारतः सिद्ध क्षेत्र निश्चयतश्च सिद्धात्मस्वरूपं ज्ञेयं, एवं चात्र शिवादीनि विशेषणानि स्थानस्य कथितानि तानि मुक्तात्मनां वस्तुतो विज्ञेयानि यतः स्थानं (सिद्धि क्षेत्रं वा स्वस्वरूपं) स्थानी च स्थानं 'सम् ' सम्यग्-अशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या-सिद्धत्व
237