________________
र.लितविस्तरासटीका मतानुयायिभिर्लोकः) सर्वज्ञ-सर्वदर्शिनोऽर्हन्तो भगवन्तस्तथाऽन्ये सर्वे आत्मानः तत्त्वतः सदा ( सर्वकालावच्छेदेन ) लोकान्तशिवादिस्थानस्था एवेष्यन्ते 'विभुनित्य आत्मेति' क्चनाद्,
एतदपोहायाह="शिवमचलमरुजमनन्तमक्षयमव्यायाधमपुनरावृत्ति-सिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः” एतत् सूत्रघटकविशेष्यपद-वाचकस्थानस्य व्युत्पत्तिलभ्योऽर्थः इह सुत्रे-तिष्ठन्त्यस्मिन्निति स्थानं, यत्र गतिनिवृत्तिरूपस्थितितस्तिष्ठन्ति तत्स्थानं ( आश्रयविशेषः )
___ व्यवहारनयतस्तत्स्थानपरिचयः=त्यवहारनयतः सिद्धिक्षेत्रं, कथमिति चेदुच्यते 'इहबोंदिचइत्ताणं, तत्थ गंतूण सिज्झइ 'ति इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यतीति वचन वर्त्तते (लोकान्त-आकाशक्षेत्ररूपलोकाग्रभागः सिद्धिक्षेत्रं)निश्चयनयापेक्षया तु सिद्धात्मस्वरूपमेव, कथमिति चेदुच्यते-सर्वे गवा आत्मभावे तिष्ठन्तीति वचनं वर्तते,
(१) अत्र ऋजुसूत्रं व्यवहारनयत्वेन गणयित्वेदं कथनं ज्ञेयं,
(२) निश्चयनयतः-अर्थात् समभिरूढ-नयस्याऽभिप्रायेण, सिद्धात्मस्वरूपमेव ( केवलज्ञानादिसिद्धस्वरूपमेव ) स्थानत्वेन कथ्यते,
व्यवहारनयाऽभिप्रेतसिद्धिक्षेत्रस्वरूपस्थान, निश्चयनयाऽभिप्रेत-सिद्धात्मस्वरूपरूप-स्थान विशेष्यपदं कृत्वा शिवादिविशेषणपदै विशेष्यते, तत्र
(१) 'शिव'मिति स्थानं शिवं (मंगल-निरूपद्रवरूपं) यतः सर्वे च ये, उपद्रवा=आध्यात्मिक-आधिभौतिक-आधिदैविका उपद्रवास्तेषामात्यन्तिकाभावाच्छिवं-मंगलमुपद्रवनामरहितं,
(२) यथा शिवं स्थानं तथा-तेन प्रकारेणाचलं-स्वाभाविकचलनक्रियापोह रूपहेतुना च प्रायोगिकचलनक्रियाऽपोहतोऽर्थाच्चलनक्रियामात्रापोहतो न स्वभावतो न प्रयोगतो गमनाभाव इत्यर्थः, न चलमचलम् .
(३) यथा स्थानं शिवमचलं तथा-अरुंज स्थानं रुजाशब्देन व्याधिश्च वेदना च कथ्यते. ततश्च विद्यमानरुजमरुज, तन्निवन्धनयोः-व्याधिवेदनयो मल-कारणभूतयोः शरीरं च मनश्च, तयोः व्याधिकारणस्य शरीरस्य, वेदना-दुःखानुभवस्य कारणस्य मनसोऽभावात् कारणाभावेशरीर-मनसोरभावे तत्कार्यमूतव्याधिवेदनयोरभावः,
(४) यथा स्थानं शिवमचलमरुजं तथाऽनन्तं स्थानं, नास्याऽन्तो विद्यते इत्यनन्तं केवलाऽऽत्मनोऽनन्तत्वात् , अनन्तत्वं स्थानस्य कथमिति चेदुच्यते केवल (केवलज्ञानं, शुद्धात्मा) केवलज्ञानस्य च शुद्ध-सिद्धात्मनोऽनन्तत्वं अर्थात् निश्चयनयसम्मतस्व-स्वरूपमेव स्थान
236