________________
"
तथा स्वाभाविकप्रायोगिकचलनक्रियापोहान्न चलमचलं, तथा रुजाशब्देन व्याधिवेदनाभिधानं ततश्चाविद्यमानरुजमरुजं, तन्निबन्धनयोः शरीरमनसोरभावात्, तथा नास्यान्तो विद्यत इत्यनन्तं, केवलात्मनोऽनन्तत्वात्, तथा नास्य क्षयो विद्यत इत्यक्षयं, विनाशकारणाभावात्, सततमनश्वरमित्यर्थः तथा अविद्यमानव्याबाधमव्याबाधं, अमूर्त्तत्वात् तत्स्वभावत्वादिति भावना तथा न पुनरावृत्ति आवर्त्तनमावृत्तिर्भवार्णवे तथा तथाऽऽवर्त्तनमित्यर्थः तथा सिध्यन्ति - निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धि:लोकान्तक्षेत्रलक्षणा, सैव च गम्यमानत्वाद्गतिः, सिद्धिगतिरेव नामधेयं यस्य तत्तथाविधमिति, स्थानं प्रागुक्तमेव, इह च स्थानस्थान निनोरभेदोपचारादेवमाहेति, “ सम्प्राप्ताः " इति सम्यगअशेषकर्म्मविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्ताः । न विभूनां नित्यानां चैवं प्राप्तिसम्भवः सर्वगतत्वे सति सदैकस्वभावत्वात् विभूनां सदा सर्वत्र भावः, नित्यानां चैकरूपतयाऽवस्थानं, तद्भावाव्ययस्य नित्यत्वाद्, अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति भावनीयं तत्तेभ्यो नम इति क्रियायोगः || इति ३२॥
"
"
6.
ललितविस्तरासटीका
"
पं०-“ द्रव्यादिवादिभिरिति” द्रव्यगुणकर्म्मसामान्यविशेषसमवायवादिभिर्वैशेषिकैरित्यर्थी, 'विभुरिति ” सर्व्वाकाशव्यापी ।
टी.... एते च सर्वेऽपि - एते प्रस्तुता अर्हन्तो भगवन्तश्च सर्वे - जीवात्मानः संसारिणश्च मुक्ताश्च सर्वे जीवाः, सर्वगत - ( जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्चेति तर्कसङ्ग्रहे, 'कालखात्मदिशां सर्वगतत्वं (सिज्झति - ऋजुसूत्रस्य व्यवहारतामपेक्ष्य, तिष्ठन्तीति समभिरूढः । इति टीप्पनिकायां) परमं महत् ' कारिकावल्याम् ) आत्मवादिभिः, द्रव्यादिवादिभिः ('द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्था ? एवं वदनशीलैर्वादिभिः वैशेषिकैः, षडूलक
235