________________
ललितविस्तरासटीका यदि विषयाकारप्रतिसंक्रमो ज्ञाने पततीति मान्यतायां ज्ञेयज्ञानयोरभेद एव, एकीभावो भवेत् , अभेदतो विषयो वाऽकार-शुन्यो भवेद् , यतो विषयस्याकारः ज्ञाने प्रविष्टः स्यात् । प्रतिबिम्बरूपाकारस्य परिभाषास्फोटः-जैनदर्शने विषयग्रहणपरिणाम एव (विषयग्रहण-ज्ञानोपयोग रूपजीवपरिणामः) प्रतिबिम्बत्वेनाऽकारत्वेन परिभाष्यते-संकेत्यते, विषयग्रहणोपयोगरूपजीवपरिणतिरेव प्रतिबिम्बाकाररूपताऽस्ति ।
___ तथा च विषयग्रहणजीवपरिणामस्यैवाकारत्वेन सामयिकविवक्षया (एकस्मिन् समये ज्ञानं, दर्शनं चापरक्षणे । सर्वज्ञस्योपयोगी द्वौ समयान्तरितौ सदा) समयान्तरापेक्षया, साकारंविशेषग्रहणजीवपरिणामवज्ज्ञानं कथ्यतेऽर्थाद्, उपयोगविशेषरूपं विशेषग्रहणजीवपरिणामवद् यत्तज्ज्ञानं साकारत्वेन सम्बोध्यते, उपयोगविशेषरूपं सामान्यग्रहणजीवपरिणामवद् यत् तद् दर्शनं 'निराकार' कथ्यते.
अत एव सकलविशेषग्रहणजीवपरिणामवत् साकारोपयोगविशेषरूप-केवलज्ञानवद्भ्यः सर्वज्ञेभ्यो भगवद्भ्यो नमो नमः,
तथा सकल-सामान्यग्रहण ( ग्राहक) जीवपरिणामवदनाकारदर्शनरूप-उपयोगविशेषकेवलदर्शनवद्भ्यः सर्वदर्शिभ्योऽर्हद्भ्यो भगवद्भ्यो नमो नमः। इति शक्रस्तवस्य एकत्रिंशत्तमपदस्य व्याख्या समाप्ता. । अथ शक्रस्तवस्य द्वात्रिंशत्तमपदस्य व्याख्याऽऽरम्भतः पूर्वमवतरणिकाया अवतार:
एते च सर्वेऽपि सर्वगतात्मवादिभिर्द्रव्यादिवादिभिस्तत्त्वेन सदा लोकान्तशिवादिस्थानस्था एवेष्यन्ते, “ विभुर्नित्य आत्मे" ति वचनाद्, एतदपोहायाह-'शिवमचल मरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिसिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः” इह तिष्ठन्त्यस्मिन्निति स्थानं, व्यवहारतः सिद्धिक्षेत्रं, " इह बोदिं चइत्ता गं, तत्थ गंतूण सिज्झई"त्तिवचनात् , निश्चयतस्तु तत्स्वरूपमेव, “सर्वे भावा आत्मभावे तिष्ठन्ती” तिवचनात् , एतदेव विशेष्यते, तत्र “शिवम्” इति सर्वोपद्रवरहितत्वाच्छिवं,
234