________________
ललितविस्तराखटीका
निराकारेण तु विज्ञानेन ग्रहणाऽभ्युपगमे विषयप्रतिनियमः (नैयत्य) न घटते-विषयस्येवाकारशून्येन निराकारेण विज्ञानेन पदार्थग्रहणमस्तीति मते (साकार) विषयाणां नियमःकथं घटत इत्यर्थः !
(उत्तरपक्षः) एतदपि-साङ्ख्योक्तमेतदप्यसत् -असुन्दरं कथमिति चेदुच्यते विषयग्राहकत्वेन जीवपरिणतेरेवाकारत्वात् (विज्ञानघनो-ज्ञानदर्शनोपयोगात्मक विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघनः, प्रतिप्रदेशं अनन्त-ज्ञानदर्शनपर्यायात्मकत्वात् स च विज्ञानघनः उपयोगात्मक आत्मा, ज्ञेयेभ्यः-कथंचिद्भुतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते-उत्पद्यते इत्यर्थः घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति. घटादिज्ञान (उपयोग) परिणामस्य घटादि-वस्तुसापेक्षत्वात् )
___ आकार इत्युक्ते कोऽर्थः ! विषयग्रहणकारकजीवपरिणति (उपयोगस्वभावः) रेवाकारतया परिभाष्यते । विषयग्राहकोपयोगरूपजीवपरिणामरूपाकारस्य, अमूर्तेऽपि मुक्तात्मनि अपि, न केवलं मूर्त इति अपेरर्थः । केनाऽप्यवाध्यमानत्वात्, अनेकविपयस्यापि-युगपदनेकं विषयमाश्रित्य प्रवृत्त-स्याऽपि च किं पुनरेकविषयस्य, अनेकविषयस्यैकविषयस्य विषयग्राहको-पयोगरूपजीवपरिणतिरूपाकारस्यैव घटमानता (सम्भवः) वर्तते चित्रे-प्रतीते, आस्तरणे च-वर्णकम्बले
आदिशब्दादन्यवहुवर्णविषयग्रहः, युगपदबहुविषयकग्रहणपरिणाम-आकारोपलब्धेः स्वसंवेदनेनैव । विषयविषयक ग्रहणरूप (ज्ञानोपयोगरूप) जीवपरिणामस्यैवाकारत्व-कथनेन योऽर्थः फलितो भवति तस्य दर्शनम् -
तथा च दर्पणसमानबुद्धौ पदार्थानां प्रतिबिम्वरूपाकारो यदा पतति तदा तद्विषयकज्ञानवान् आत्मा भवति, परन्तु मुक्तात्मनि दर्पणसमान-बुद्धेरभावेन पदार्थानां प्रतिबिम्बरूपाकारपतनेन सर्वपदार्थविषयकज्ञानरूपकेवलज्ञानवान् (सर्वज्ञः) मुक्तात्मा नास्ति, अर्थात् विषयाकारप्रतिसंक्रमरूपप्रतिबिम्बस्याभावरूपः प्रतिविम्वाकारता प्रतिक्षेपः, कथितस्तस्य प्रतिक्षेपो भवति. तथाहि-अत्र घटादिपदार्थस्याकारः, आकारत्वेन न परिभाष्यते परन्तु विषयग्रहण (ज्ञानोपयोग)-रूप जीवपरिणाम (स्वभाव) स्यैव प्रतिविम्वत्वेनाऽभ्युपगमोऽस्ति. एतादृश-विशिष्ट (परिभाषित)-आकारस्य निरूपणेन, घटादिरूपविषय (ग्राह्य) स्याकारस्य, विषयग्राहकज्ञाने प्रतिसक्रम-प्रतिबिंबस्यापतनेन, ज्ञाने विषयाकारस्य प्रतिबिम्बं पतेत् तदैव तद्विषयकज्ञानवानात्मा भवेत् , मुक्ताऽवस्थायां अरूपिणि ज्ञाने विषयाकारप्रतिविम्वपतनाभावेनार्थात् सर्वार्थविषयक-ज्ञानवान् मुक्ताऽऽत्मा नास्तीति वर्णनमसत्-अत एव खण्डितं भवति.
३०
233