________________
ललितविस्तरासटीका
(१) दर्शनरूप-जीवस्वभावः स्वस्वभावतः सामान्यं मुख्यं कृत्वा विशेष गौणं कृत्वा पदार्थविषयकं बोधरूपग्रहणं, दर्शननामकजीवस्वभावः।
(२) ज्ञानरूप-जीव-स्वभावः जीवस्वभावतः सामान्यं गौणं कृत्वा, विशेष मुख्य कृत्वा पदार्थविषयकबोधरूपग्रहणं, ज्ञाननामकजीवस्वभावः ।।
( अत्र दर्शनं प्राणग्रहणं जद्मस्थजीवापेक्षया, आदौ निर्विकल्पकज्ञानमुत्पद्यते केवलिनां तु प्राग् ज्ञानं भवति.)
तथा च यत्र प्रधानत्वेन सर्वे विशेषाः सन्ति, गौणरूपेण च सर्वसामान्यं वर्तते ईदृशं यत्प्रधानसकलविशेषकं गुणभूतसकल-सामान्यकज्ञानं, केवलज्ञानं अत एव सर्वार्थविषयकं ज्ञानं अत एव तद्वान् ‘सर्वज्ञः'
यत्र प्रधानरूपेण सर्व सामान्यं गौणरूपेण सर्वे विशेषा एतादृशं यद्ग्रहणं, प्रधान सकलसामान्यकं गुणभूतसकलविशेषकं, एतादृशं यद्ग्रहणं प्रधान-सकलसामान्यकं गुणभूतसकलविशेषकं तदनन्तदर्शन-केवलदर्शनं कथ्यते, अत एव सर्वार्थविषयकं केवलदर्शनमतस्तद्वान् 'सर्वदर्शी कथ्यते.
पूर्वपक्ष: अपरः-साङ्ख्य आह-कथयति=मुक्तात्मनः क्षीणकर्मणः, अमूर्त्तत्वात् - रूपादिरहितत्वात् , ज्ञानस्यापि-न केवलं मुक्तात्मनः, मुक्तात्मधर्मत्वेन ज्ञानस्यापि अमृतत्वं आकाशधर्माकाशत्ववत् वर्त्तते, अमृतस्य धर्मोऽमृतः, अर्थान् मुक्तात्मनश्च ज्ञानस्य, मुक्तात्मज्ञानरूपयोरुभयोरमूर्त्तत्वेन, 'विषयाकारताऽयोगतः' विषयस्य तुल्यो य आकारः (स्वभावः आकृतिः प्रतिविम्बं) तस्या भावतो, (निरुक्तवृत्त्या ज्ञायतेऽनेनेति) करणसाधनरूपज्ञानाभाव एव, निराकारत्वेन साकारज्ञानाभावः कथं न ?
तद्भावना=असौ खलु मुक्तात्मा, निस्तरङ्गमहासागरसदृशः, तत्समुद्रतरगतुल्याश्च महदादिपवन-बुद्धयहकारादिप्रकृतिविकारपवनयोगतः-सम्बन्धतः वृत्तयो-विषयज्ञानादिकाः प्रवृत्तयः, अर्थात् तरङ्गतुल्यपवनयोगस्याभावात् , तरङ्गतुल्यवृत्त्यभावः ।
तथा च प्रकृतिविकाररूप-बुद्धिआदिरूपकारणस्याभावे विषयज्ञानादिक-वृत्ति-प्रवृत्तिरूपकार्यस्याभावः, अत एव मुक्तात्मनि साकारज्ञानस्याभावत्वेन सर्वार्थविषयक-ज्ञानस्याभावः, अतो मुक्तात्मनि सर्वज्ञताया अभावेन मुक्तात्मानोऽसर्वज्ञा इति वादिना सिद्धिःकृता,
'232