________________
ललितविस्तरासटोका
( उत्तरपक्षः ) हे वादिन् ! धर्मिणो ग्रहणे धर्माणां ग्रहणं न भवतीति मा वद, यतो ज्ञानद्वारा विषमताविशिष्टपदार्थानां ग्रहणेन सह विषमतारूपधर्मस्य ग्रहणं च समतारूपधर्मस्य ग्रहणं भवति, तथा दर्शनद्वारा समताविशिष्टपदार्थानां ग्रहणेन सह समतानामकधर्मस्य विषमतानामक धर्मस्य ग्रहणं भवति यतो जैनशासने धर्मिभिः सह धर्माणां सर्वथा भेदो न स्वीकृत: ( धर्मधर्मिणोः सर्वथा भेदाऽप्युपगमे, तयो विशेषणविशेष्यसम्बन्धो न भवितुं शक्नोति, यथा करमरासभयोः सर्वथा भिन्नत्वे सति धर्मधर्मिसम्बन्धो न भवितुं शक्यते, यदि धर्मितो धर्मस्य सर्वथा भिन्नपदार्थत्वे एकस्मिन्नैव वस्तुनि पदार्थानन्त्यप्रसङ्ग आपतेत् ! यतो वस्तु अनन्तधर्मात्मकमस्ति किञ्च सामान्यविशेषयोः प्रतीतिः पदार्थानां धर्म (गुण) रूपेणैव भवति, पदार्थेषु सामान्यविशेषौ अविष्वग्भावे ( अभेदभावे ) न वर्तमानौ स्तः, सामान्यविशेषयोः सर्वथा भिन्नत्वे, एकस्मिन् वस्तुनि सामान्यविशेषसम्बन्धो न भवति, यतः सामान्यविशेषयोः पदार्था एकान्तेन भिन्ना मता अतः पदार्थ सामान्यविशेषयोः सम्बन्ध एव न भवति. )
(१) यैः समताख्यो धर्मः गौणीकृतः ( स्वकुक्षिकृतः - अभ्यन्तरीकृतः ) ईदृशा विषमतानामकर्मविशिष्टाः पदार्था एव ज्ञानेन गम्यन्ते ( ज्ञायन्ते ),
(२) तथा ये विषमता नामको धर्म उपसर्जनीकृतः ( अभ्यन्तरीकृतः - स्वकुक्षिरक्षितः ) ईदृशाः समता धर्मविशिष्टाः पदार्था दर्शनेन गम्यन्ते ( दृश्यन्ते ) यतो जैनमते धर्मिभिः धर्मस्य सर्वथा भेदो न मतः, इत्यतो न दोषः । तथा च ज्ञानदर्शनरूपग्रहणस्य भेदस्य बीजकं गौणमुख्यभावोऽस्ति, अर्थात् विशेषं प्रधानं कृत्वा, सामान्यं च गौणं कृत्वा पदार्थविषयकं बोधरूपग्रहणं तज्ज्ञानं तथा सामान्यं प्रधानं कृत्वा विशेषं च गौणं कृत्वा (अभ्यन्तरं कृत्वा ) पदार्थविषयक - बोधरूपं ग्रहणं दर्शनं एवं च भिन्न- भिन्न- शैल्या बोधरूपग्रहणं नाम ज्ञानं च दर्शनम्, शैल्या भेदे गौणमुख्यभावो महत्वपूर्ण भागं भजते,
अर्थात् धर्मिणां ग्रहणेन सहैव धर्माणां ग्रहणतः केवलज्ञानं धर्मधर्मिरूप - सर्वार्थ 'विषयविषयकं तथा केवलदर्शनं च धर्मधर्मिरूपसर्वार्थविषयविषयकं, अर्थाद् अर्हत्सु भगवत्सु ( मुक्तेषु ) सर्वज्ञता च सर्वदशिता प्रमाण - सिद्धैव ।
पूर्वोक्तस्य निष्कर्षः = जीवस्य स्वाभाव्यतः सामान्यस्य प्रधानतावत् उपसर्जनीकृतविशेषतावत्-अर्थस्य ग्रहणं दर्शनमुच्यते, तथा विशेषप्रधानतावत् उपसर्जनीकृत - सामान्य तावत्, अर्थम्य ग्रहणं ज्ञानमुच्यते,
231
"