________________
ललितविस्तरासटीका
केवलज्ञानस्य विषयः ( प्राधान्येन ) विशेषोऽस्ति, गौणरूपेण सामान्यमप्यस्ति, केवलदर्शनस्य विषयः प्राधान्येन सामान्यमस्ति गौणरूपेण विशेषोऽप्यस्ति अर्थात् केवलज्ञानस्य विषयः विशेषश्च सामान्यं चैवमुभयमस्त्यतः विशेषसामान्योभयरूपसर्वार्थविषयविषयकता केवलज्ञाने वर्त्तते किञ्च केवलदर्शनस्य विषयः सामान्यं विशेषश्चेत्युभयमस्त्यतः सामान्य - विशेषोभयरूपसर्वार्थ विषयविषयकता, केवलदर्शने वर्त्तते, तथा चोभयम्, स्वतन्त्रतया सामान्यविशेषावगाहित्वेन, केवलज्ञानदर्शनोभयरूपं ज्ञानान्तरं न कल्पनीयं केवलज्ञानमेकमेव विशेष - सामान्योभयावगाहकं, केवलदर्शनमेवैकं सामान्यविशेषोभयावगाह कमस्ति .
पारिभाषिक – सामान्यविशेषव्याख्या = यदा सामान्यविशेषयोर्भेदो नास्ति तदा सामान्यविशेषरूप - संज्ञाशब्द-भेदे को गर्भितार्थोऽस्ति ? एतादृशशंकासमाधानाय कथयति
पदार्था एव सामान्यविशेषरूपेण संकेतिताः क्रियन्ते, तथाहि त एव पदार्था: समत्वेन (समत्वधर्माविच्छेदेन ) विषमत्वेन ( विषमत्वधर्मावच्छेदेन ) समताधर्मविशिष्टविषमता धर्मावच्छिन्ना पदार्था यदा सम्प्रज्ञान - ( अवबोध - उपयोग ) विषयभूता भवन्ति तदा बोधरूप उपयोग ( सम्प्रज्ञान ) विषयभूताः समताधर्म - विशिष्ट पदार्था सामान्यशब्दवाच्या भवन्ति तथा च बोधरूपोपयोग ( सम्प्रज्ञान ) विषयभूताः - विषमताधर्मविशिष्ट पदार्था विशेषशब्दवाच्या भवन्ति अत एते, त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति,
पूर्वपक्ष: = पदार्थाः सासान्यविशेषात्मका भवन्तु, परन्तु ज्ञानद्वारा विषमताधर्मविशिष्टा एव गम्यन्ते (ज्ञायन्ते) न तु समताधर्मविशिष्टा अपि, तथा दर्शनद्वारा समताधर्मविशिष्टा एव गम्यन्ते ( दृश्यन्ते ) न विषमताधर्म - विशिष्टा अपि ततश्च ज्ञानेन समताख्यधर्मस्याग्रहणाद् दर्शनेन विषमताख्यस्य धर्मस्याग्रहणाद्, अर्थात् केवलज्ञानं, विशेषधर्मविशिष्टपदार्थविषयकं परन्तु सामान्यधर्माग्राहकं, ( सामान्यविशिष्टपदार्थमपि न गृह्णाति ) अतः सर्वार्थविषयकं कथं ? तथा केवलदर्शनं, सामान्यधर्मविशिष्टान् पदार्थान् पश्यति, परन्तु विशेषनामक धर्म (विशेषविशिष्टपदार्थान् ) न पश्यति, ततः सर्वार्थविषयकं कथं ? किञ्च धर्मा अपि अर्थाविषयाः ( ग्राह्यत्वेन ) सन्ति, अत एव केवलज्ञाने सामान्यधर्मरूपविषयस्य, केवलदर्शने च विशेषधर्मविषयस्य ग्रहणरूपेणाभावोऽस्ति, अतः केवलज्ञानस्य च केवलदर्शनस्य सर्वार्थविषयक - त्वयुक्तं कथं न ?
230