________________
स्वरूपज्ञानतो दुःखस्याऽनुभवो नास्ति, यदि ज्ञानमात्रादेव सुखदुःखाद्यनुभवमान्यतायां पुष्पमाला—चन्दन—स्त्री- कर्णशष्कुली - मिष्टान्न - पक्वान्न - स्वादिष्टपदार्थविषयक चिंतन ( ज्ञान ) मात्रादेव तृप्तिर्भाव्यैव, यद्येवं तृप्तिर्भवेत्तदा मालादिप्राप्तये प्रयत्नमात्रस्य निष्फलता प्राप्नुयादिति. )
ललितविस्तरासटीका
परन्तु, असातावेदनीयादिकर्म कारणमस्ति, चासात वेदनीयादिकर्मणः कारणं, रागद्वेषमोहादिरूपस्वपरिणामरूप औदयिक – भावोऽस्ति, किञ्चौदयिकभावरहित आत्मनि ( असातवेदनीयादिकर्मविपाकजन्य - स्वपरिणामरूपौदयिक - क्रियाभावशून्य आत्मनि ज्ञानमात्राद् दुःखाद्यनुभवस्य सर्वथाऽभावोऽस्ति, यतः केवलज्ञानेनैव दुःखाद्यनुभवस्य मान्यतायां, दुःखादौ, औदयिक - क्रियाभावस्य स्वभावता स्वीकरणीया स्यात्, परन्तु दुःखाद्यं तु, असातावेदनीयादि कर्मणः फलमस्ति, औदयिक - क्रियाभावस्य स्वभावता तु संसारवर्तिन्यात्मन्यस्ति, औदयिक— क्रियाभावशून्ये मुक्तात्मनि नास्ति, एवं च सर्वज्ञता च सर्वदर्शितेति द्वयमात्मनः स्वभावोऽस्ति, सिद्धमिति ।
केवलज्ञानं सर्वविषयान् जानाति, केवलदर्शनं सर्वविषयान् पश्यतीत्येतद्विषयकालोचना
वादी (पूर्वपक्ष: ) ज्ञानस्य विषयो विशेषा न सामान्यं ज्ञानं विशेषरूपविषयविषयकं न तु सामान्यरूपविषयविषयकं दर्शनं सामान्यरूपविषयविषयकं न तु विशेषरूपविषयविषयकं, तर्हि केवलज्ञानस्य विषयः, सामान्यविशेषौ, सर्वेऽर्थाः कथं ? अर्थात् केवलज्ञानदर्शनयोः सामान्यविशेषोभयरूपं सर्वार्थविषयकत्वमयुक्तं यतः केवलज्ञानदर्शनोभयं सामान्य विशेषोभयरूप सर्वार्थविषयविषयक मस्ति, किञ्च केवलज्ञानदर्शनोभयं नैतत् केवलज्ञानरूपं तथैकं केवलदर्शनरूपं नास्ति, यत 'उभयं नैकं' उभयं तूभयमेव न त्वेकं इति न्यायोऽस्ति केवलज्ञानदर्शनोभयनिष्ठोभयत्वविशिष्टं केवलज्ञानदर्शनोभयमस्ति, एतदुभयस्य विषयः विशेषसामान्य सर्वार्थोऽस्ति, तथा च केवलज्ञान - दर्शनाभ्यां भिन्नं - विलक्षणं केवलज्ञानदर्शनोभयरूपं ज्ञानांतरन्तु युष्माभिर्न मतमस्ति यतः सर्वार्थविषयकं ज्ञानं भवेदिति.
-
,
19
अतो मुक्तावस्थायां केवलज्ञानदर्शनोभयरूपस्य सर्वार्थविषयकज्ञानान्तरस्याभावत्वेन सर्वज्ञतया वा सर्वदर्शिताया अभावः कथं न ?
समाधानं ( उत्तरपक्षः) सामान्यस्य विशेषस्य भेदो नास्ति ( आश्रय - भेदाभावात )
229