________________
ललितविस्तरासटीका
तथा च घातिकर्मचतुष्टयरूपाभ्राणि, क्षपकश्रेण्यारूढ आत्मा, श्रेणिसमाप्तौ क्षपयति, श्रीमानात्माऽऽत्मिकसामर्थ्ययोगेन ज्ञानकेवली-सर्वज्ञः-सर्वदर्शी भवति.
तथा च पदार्थविषयकज्ञानं (अर्थचेतन) प्रति प्रकृतिजन्यबुद्धिःकरणं (असाधारणं कारणं) प्रकृतेवियोगे ( ध्वंसे ) च मुक्तावस्थायां बुद्धिरूपकरणस्याऽभावे ( कारणाभावप्रयुक्त कार्याभावनियमेन ) मुक्तेषु सर्वज्ञत्वं सर्वदर्शित्वं वा न सम्भवति, यतः करणं विना कर्ता करणसाध्यफलसाधकः कथं भवेदिति चेदुच्यते, एकान्तोऽत्र नास्ति, करणाभावेऽपि कश्चित् किश्चिस्करोति, सुनिपुणनिर्यामकादेनकाऽभावेऽपि सन्तरणं दृश्यते, तथाहि-क्षायोपशमिकज्ञानं प्रति स्पर्शनादीनि करणानि भवन्त्येवेति सुशोभनं अर्थात् स्पर्शनादिकरणजन्यं छाद्मस्थिकं ज्ञानमस्ति, क्षायिकज्ञानं प्रति स्वस्यैव करणताऽस्ति, स्वरूपकरणजन्यं स्वभाव क्षायिकज्ञानमस्ति, अत्र स्वं विहाय परस्पर्शनादिकरणाभावत्वेन कथ्यते अत्रैकांतो-नियमो नास्ति, 'करणाभावे कर्ता, करणसाध्यफलसाधको न भवेत् ' यतः तरणकलापारंगतो विना नौको सागरसन्तरणं दृश्यते ( एवं च ज्ञानात्मनोरभेदे, यथा सर्प आत्मानमात्मना वेष्टयतीत्यत्राभेदे कर्त्तकरणभावस्तथाऽत्रापि ) अर्थात् छाद्मस्थिकज्ञानं प्रति स्पर्शनादि भिन्नं करणमस्ति, क्षायिक-स्वभावज्ञाने स्वस्यैव करणात्वमस्ति, स्वयमेव करणम् ,
ननु-यथानीलपीतादि धर्मा बाह्यपदार्थस्य-प्रकृतेरेव सन्ति, तथा दुःख-द्वेष शोक वैषयिकसुखाद्या धर्मा बाह्यपदार्थस्य-प्रकृतेरेव सन्ति, किञ्च यदि मुक्तावस्थायां सर्वविषयविषयक-ज्ञानरूपसर्वज्ञता, सर्वद्रव्यपर्यायविषयक-साक्षात्काररूप सर्वदर्शितेति मान्यतायां बाह्यपदार्थस्य वेदनसमये ( अनुभव-ज्ञानकाले ) सर्वदुःखाद्यवेदनं अनुभवः-भोगो मुक्तेषु कथं न प्राप्येतेति चेदुच्यते,
एवं च-दुःखाद्य नुभवं (विपाकं-भोगं) कार्य प्रति असातवेदनीयादि, कर्म कारणमस्ति, वा सातावेदनीयादिकर्म पुद्गलरूपद्रव्यकर्म प्रति आत्मन औदयिक (कर्मोदयनन्य) वैभाविकरागद्वेषमोहादिरूपस्वपरिणामः कारणमर्थाद्रागद्वेषमोहादिरूपौदयिकभावाऽभावेऽसातवेदनीयादि द्रव्यकर्म नास्ति, यदाऽसातवेदनीयादिजन्यदुःखाद्यनुभवः कुतो भवेत् ! इति एवं च दुःखाद्यनुभवं प्रति दुःखादिविषयकज्ञानं कारणं नास्ति,
( वयं जैना ज्ञानमप्राप्यकारीति मन्यामहे, अर्थात् ज्ञानमात्मनि स्थित्वैव पदार्थान् जानाति ज्ञेयपदार्थान् प्राप्य (संयुज्य) गत्वा नहि जानाति, तस्मान्नरकादिदुःखानां
228