________________
ललितविस्तरासटीका पर्यायाथिकनयं गौणीकृत्य द्रव्याथिकन्यस्य प्रधानतया द्रव्येण सहकाधारवृत्तित्वरूपाऽपेक्षया सकलधर्माणामभेदस्थितिः ( य एव चाधारोऽर्थों द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः, अतोऽत्रार्थ-आधारापेक्षया गुणा अभिन्नाःसन्ति, कालाष्टांतर्गताऽर्थेन, धर्मधर्मिणोरभेदस्य प्राधान्यमङ्गीक्रियते तदा तेनाऽर्थेन समस्तधर्माणां तादात्म्येनाऽस्थितत्वात् , य एव च घटद्रव्यरूपोऽर्थोऽस्तित्वस्याऽऽधारः स एवान्यधर्माणामप्याधारः इत्येकाधारवृत्तित्वमर्थेनाऽभेदवृत्तिः )
___ मदर्थाश्चेति=अहमर्थः साध्यं (अर्थः-प्रयोजन-लक्ष्यं-उपयोगश्च) येषां ते मम गुणाः सन्ति, ( अथवा मम अर्थरूपा-उपयोग-कार्य-समृद्धि-रमणतास्थानरूपा गुणाःसन्ति ) यतो गुणेषु वृत्तिं (वर्तनं-रमणत्वं) विनाऽन्या काचित् ऐकान्तिकी प्रवृत्तिर्ममापि नास्ति, अर्थात् , अहमपि गुणेषु रमे, मदीया वृत्तिरूपा प्रवृत्तिर्गुणे प्वेव नान्यत्र (श्रीभगवान् स्वमुखेन् कथयति, अहं च मदीया गुणाः, न भिन्नाः, अहमित्युक्ते गुणाः, गुणा इत्युक्तेऽहमित्येवं वयमभिन्नाः स्मोः यतो यथा मयि गुणाःसन्ति, तथाऽहमपि गुणेषु रमे, आवयोन भेदोऽस्ति, वयं अहं च गुणा अभिन्नाः स्मः, मदीयाः सत्याः सनातन-शाश्वती-अनन्तद्धिरतिरमणीयक्रीडायाश्च स्थानं मदीया गुणा एव, अहं गुणान् विमुच्य कुत्रचिदपि न गच्छामि, तिष्ठामि, रमेऽपि मम वास्तव्यभव्यभवनमुच्यतां वा मम रमणाय रमणीयमुपवनं कथ्यतां वा मम स्थिरतायाः स्थिरं स्थानं गद्यतां वा मदीया सनातनविश्रामभूमिरुद्घोप्यतां, एते मम गुणा एव मन्तव्याः)
तथा च द्रव्यतः कथंचिदभिन्नस्वरूपाः कथंचिदभिन्नस्वरूपा गुणा भवन्ति, इत्येवं निरूपणात् “तत्तत्स्वभावत्वसिद्धिः "-तेषां गुणानां द्रव्यस्वभावत्वसिद्धिः (आत्मद्रव्यस्वभावास्तत्स्वरूपा एव गुणा ज्ञानादय इति सिद्धम् ) उक्तं च-"स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया ।
चन्द्रिकावच्च विज्ञानं, तदावरणमभवद् ॥ १।।" अर्थात्-यथा शीतांशुश्चन्द्रः भावशुद्धया प्रकृत्या-स्वभावेन स्थितोऽस्ति तथा भावतो निर्मलस्वभावतो जीवः स्थितोऽस्ति, अनादितः, यथा चन्द्रे चन्द्रिका तथा जीवे विज्ञानं (विशिष्टज्ञानं केवलज्ञानं) स्थितमेव, (अभ्रवद्-वादलवत् ) चन्द्रचन्द्रिकोपरि, आगन्तुकम_ तथा जीवविज्ञानोपरि ज्ञानावरणादिकर्मरूपमावरणमागन्तुकमत एव कारणसत्त्वे विनाश्यमेव ( विनष्टं भवति) इत्यादि विचारणीयम् ।
.227