________________
ललितविस्तरासटीका तिष्ठन्ति ये स्वयं गुणरहितास्ते गुणाः, ईदृशलक्षणवन्तो मम गुणा ज्ञानाद्या ज्ञेयाः, तथा चोभयो र्लक्षणभेदेनाहं च मम गुणा भिन्ना एव स्मः,
(यद्यपि पर्याया अपि द्रव्याश्रिता निर्गुणा एव सन्ति, तथापि ते-उत्पादविनाशशालित्वेन न द्रव्य एव सदा तिष्ठन्ति परन्तु गुणास्तु ध्रौव्यवत्त्वेन नित्यत्वेन सदा द्रव्याश्रिताः सन्ति, एवं गुणपर्याययोर्मध्ये विशेषः, द्रव्ये सदा वर्तमाना याः शक्तयस्ताः पर्यायजनकत्वेन सम्मताः सन्ति ताः शक्तयो गुणत्वेन परिभाषिताः, द्रव्यनिष्ठ गुणजनकशक्तिरूपगुणा अनवस्थानिवारणाय निर्गुणा मताः, आत्मगुणाः चेतना-सम्यक्त्व-चारित्रानन्दवीर्यादिरूपाः )
(२) संख्याभेदापेक्षया द्रव्यगुणयोर्भेदः अहमात्मद्रव्यमेकं ( एकत्वसंख्याविशिष्टं ) मम च गुणा अनेके ( अनेकत्व-बहुत्वानन्तरूपसंख्या विशिष्टाः ) एवमुभयोः संख्याभेदेन, अहं च मम गुणा भिन्ना भिन्नाः ।
(३) प्रयोजन (फल) भेदापेक्षया द्रव्यगुणयोर्भेद: अहमात्मद्रव्य बन्धमोक्षादिक्रियाफलवानहं ( या या क्रिया सा सा फलवती ) इति नियमानुसारेण बन्धजनकक्रियाद्वारा संसारफलं, मोक्षजनकसंवरादिक्रियाद्वारा मोक्षफलं भवति, अन्यथा नहि. अर्थात् संसारमोक्षरूप विभावस्वभावरूपा आत्मीया अवस्थाः संसारमोक्षजनकक्रियाप्राधान्यवत्यः अत एव भगवान् कथयति वन्धजनकक्रियाजन्यभवोपग्राहि (अघाति) रूपकर्मरूपसंसारफलवांस्तथा मोक्षजनकक्रियाजन्यघातिकर्ममुक्तिरूपमुक्तिफलवानहं ।
मम ज्ञानादिगुणाश्च विषय (पदार्थसार्थ) विषयकावगम-ग्रहणादिफलवन्तः, अत एव वयं-अहं च मम गुणाः भिन्नभिन्नफलवत्त्वेन भिन्नाः स्मः ।।
(४) संज्ञाभेदापेक्षया द्रव्यगुणयोर्भेदः अर्हन्-जिन-तीर्थकरः-पारगत आदिपर्यायवाचकरूपसंज्ञाशब्दतो वाच्योऽहं, अर्थान्मां अर्हन्नादिनामभिराह्वयति-संबोधयति, मम च गुणान्, धर्म-पर्याय-स्वरूप-लक्षण-स्वभावादिसंज्ञाशब्दैः संबोधयति। तथा च मम संज्ञा भिन्नाऽस्ति, मम च गुणानां संज्ञा (संकेत शब्दः) भिन्नाऽस्ति, अर्थादहं च मम गुणा भिन्नाःस्मः ।
अत्र द्रव्यार्थिकनयस्य गौणत्वेन, पर्यायाथिकनयस्य प्राधान्येन भेदो ज्ञेयः । द्रव्यगुण ( पर्याय ) योरभेदस्य निरूपणम्= मदर्थाश्च गुणाः' अहमर्थः आधारः येषां ते मदर्था गुणाः कथ्यन्तेऽर्थान्मम गुणा मदाधारे तिष्ठन्ति ( अहमित्यात्मद्रव्यनिष्ठाधिकरणतानिरूपकाघेयताविशिष्टा गुणाः, अथवा गुणनिष्ठाघेयतानिरूपिताधिकरणतावदात्मद्रव्यमहमिति शाब्दबोधः) तथा च
226