________________
ललितविस्तरासटीका एतदपि कुत इत्याह-" चित्रास्तरणादौ " चित्रे-प्रतीते आस्तरणे च-वर्णकम्बले आदिशब्दादन्यबहुवर्णविषयग्रहः " तथोपलब्धेः" युगपद्बहुविषयाकारोपलब्धेः स्वसंवेदनेनैव ।। ____ अथ प्रसङ्गसिद्धिमाह-" एतेन” विषयग्रहणपरिणामस्यैवाकारत्वेन, " विषयाकाराप्रतिसक्रमादिना” विषयाकारस्यग्राह्यसंनिवेशस्याप्रतिसक्रमः-स्वग्राहिणि ज्ञानेऽप्रतिबिम्बनं विषयाकाराप्रतिसङ्क्रमः, विषयाकारप्रतिसक्रमे हि एकत्व वा ज्ञानशेययोरेकाकारीभूतत्वात् , विषयो वा निराकारः म्यात , तदाकारस्य ज्ञाने प्रतिसक्रान्तत्वाद्, यदाह धर्मसङ्ग्रहणीकारः
"तदभिन्नाकारत्ते, दोण्हं एगत्तमो कहं न भवे १ ।
नाणे व तदाकारे, तस्साणागारभावोत्ति ॥१॥" आदिशब्दात् प्रतिनियतप्रतिपत्तिहेतोईयेन तुल्याकारतायां ज्ञानस्य प्रतिषेधो दृश्यः, क्रमवृत्तिनो यज्ञानयोः क्षणिकयोः क्षणस्थायिना ज्ञानेन उभयाश्रितायास्तस्या एवं प्रतिपत्तुमशक्यत्वात , किश्व-तुल्यत्वं नाम सामान्यं, तच्चैकमनेकव्यक्त्याश्रितमिति कथं न तदाश्रितदोषप्रसङ्गः ? , अत्राप्याह
"सिय तत्तुल्लागार, जं तं भणिमो ततो तदागारं । अत्रोत्तरं- तग्गहणाभावे नणु, तुल्लत्तं गम्मई कह णु १ ॥ १ ॥
तुल्लत्तं सामन्न; एगमणेगासियं अजुत्ततरं ।
तम्हा घडादिकज्जं, दीसइ मोहाभिहाणमिदं ॥ २॥" ततस्तेन विषयाकाराप्रतिसक्रमादिना कारणेन विज्ञानस्य विषयग्राहिणः प्रतिबिम्बाकारताप्रतिक्षेपो-ज्ञानवादिप्रतिज्ञातो विषयप्रतिबिम्बाकारविज्ञानं न घटते, किन्तु बाह्याकारमेव सत्स्वभावमात्रप्रतिभासीत्येवंरूपः “ प्रत्युक्तो" निराकृतः । “ विषयग्रहणेत्यादि " हेतुश्च प्रतीत एव, मुक्तरूपपरिणामस्याकारत्वे सामा (म)यिकविवक्षया साकारं विशेषग्रहणपरिणामवत् ज्ञानमुपयोगविशेषोऽनाकारं च सामान्यग्रहणपरिणामवद्दर्शनमुपयोगभेद एवेत्यपि सिद्धं भवति ।
टी०....' एतेऽपीति '-बुद्धेः ( महत्तत्त्वं यस्य द्वितीयं नाम तादृशी-बद्धेः ) योगे सति-बुद्धि योगजन्यं आत्मनि ज्ञानमुत्पद्यते, अर्थाद् बुद्धेः सम्बन्धेनोत्पद्यमानं ज्ञानं मन्यते, इति वादिभिःकापिलै; (सांख्यदर्शनाद्यप्रणेता, 'कपिलः' परमर्षिः कथ्यते) कपिलानुयायिभिः, अर्हन्तो भगवन्तोऽप्येते असर्वज्ञा असर्वदर्शिनश्चेप्यन्ते, “बुद्धयध्यव्यवसितमर्थ पुरुषश्चेतयते" अर्थाद् बुद्धौ प्रतिविम्बितमर्थ पुरुष:-आत्मा जानाति. अर्थचेतने बुद्धेरन्तरङ्गकारणमस्ति, ( सांख्यमतम्=तत्त्वानां मूलकारणं प्रकृतिः ( अव्यक्तं . प्रधान, सत्त्वरजस्तमसां साम्यावस्था) स्वयं कस्यचिद्विकृति नास्ति, अतः अविकृतिः कथ्यते, महत् ( बुद्धिः ) अहंकारः, शब्दादि पञ्चतन्मात्राः (७) प्रकृतिविकृतिरूपा, महत् , अहंकारस्य प्रकृतिः मूलप्रकृतेविकृतिः, अहंकारः इन्द्रियाणां प्रकृतिः, बुद्धेः विकृतिः, पञ्चतन्मात्राः पञ्चभूतानां प्रकृतिः, अहंकारस्य विकृति
223