________________
ललितविस्तराखटीका
"मत्तोऽन्ये मदर्थाश्चेत्यादि" इह किलैकदा भगवानहन द्रव्यान् (णि) पर्यायान् भिन्नानभिन्नांश्च स्वशिष्येभ्य आचिख्यासुरात्मानमेवातिसन्निहिततयोद्दिश्याह-मत्तो-मत्सकाशादन्ये-पृथक् गुणाज्ञानदर्शनोपयोगादयः, लक्षणसङ्ख्याप्रयोजनसंज्ञाभेदात् , तथाहि-"गुणपर्यायवद्र्व्यमिति" (तत्त्वा० अ० ५ सू० ३७) लक्षणोऽहं, "द्रव्याश्रया निर्गुणा गुणाः” (तत्त्वा० अ० ५ सू० ४०) इतिलक्षणाश्च गुणाः, एकोऽहमनेकेगुणाःबन्धमोक्षादिक्रियाफलवानहं विषयावगमादिफलाश्चगुणाः, अर्हत्तीर्थकरपारगतादिशब्दवाच्योऽहं, धर्मपर्यायादिशब्दवाच्याश्च गुणाः, मदर्थाश्चेति-अहमर्थःसाध्यं येषां ते तथा, न हि गुणवृत्तिविलक्षणा काचिदैकान्तिकी ममापि प्रवृत्तिरस्ति, तथाप्रतिभासाद् " इतिः" वाक्यपरिसमाप्तौ “अतः” एतद्वाक्यात् , "तत्तत्स्वभावत्वसिद्धिः" तेषां गुणान तत्स्वभावत्वसिद्धिः-द्रव्यस्वभावत्वसिद्धिः, अर्थचेतने पुरुषस्य किल बुद्धिः करणं, प्रकृतिवियोगे च मुक्तावस्थायां करणाभावान्न सर्वज्ञत्वं सर्वदर्शित्वं वा सम्भवतीति पराकूतनिराकरणायोवाच-"न करणेत्यादि" सुगमं चैतत् , ननु नीलपीतादय इव बहिरर्थधर्मा दुःखद्वेषशोकवैषयिकसुखादयः, ततो मुक्तावस्थायां सर्वज्ञत्वसर्वदर्शित्वाभ्युपगमे बहिरर्थवेदनवेलायां सर्वदुःखाद्यनुभवस्तस्य प्राप्नोतीत्याशङ्कापरिहारायाह-" न चौदयिकेत्यादि " न च-नैवौदयिकक्रियाभावरहितस्यअसद्वेद्यादिकर्मपाकप्रभवस्वपरिणामरहितस्य “ ज्ञानमात्रात्" परिज्ञानादेव “ दुःखादयो" दुःखद्वेषादयो, हेतुमाह
“तथानुभवतो” ज्ञानमात्रादेव दुःखाद्यनुभवतः “ तत्स्वभावत्वोपपत्तेः " दुःखादीनामौदयिकक्रियाभावस्वभावत्वोपपत्तरिति । “अपरेत्यादि " अपरः-साङ्खयः आह-प्रेरयति, मुक्ता. त्मनः-क्षीणकर्मणः अमूर्त्तत्वाद्-रूपादिरहितत्वात् , किमित्याह-"ज्ञानस्यापि” न केवल मुक्तात्मनः “ तद्धमत्वेन " मुक्तात्मधर्मत्वेन " तत्त्वाद् " अमूर्त्तत्वात् , ततः किमित्याह"विषयाकारताऽयोगतः” विषयस्येव-गोचरम्येवाकारः-स्वभावो यस्य तत्तथा तद्भावस्तत्ता तस्याः अयोगतः-अघटनात् “तत्त्वतो" निरुक्तवृत्त्या ज्ञायतेऽनेनेति करणसाधनज्ञानाभाव एव, तदेव भावयति-निस्तरङ्गमहोदधिकल्पो ह्यसौ-मुक्तात्मा, "तत्तरङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति" बुद्धथहकारादिप्रकृतिविकारपवनसम्बन्धात् , वृत्तयो-विषयज्ञानादिकाः प्रवृत्तयः, “इति" एवं “तदभावात्” महदादिपवनयोगाभावात् " तदभावः " तरङ्गतुल्यवृत्त्यभावः, ततः किमित्याह
" एवं " वृत्त्यभावात् “ सर्वज्ञत्वानुपपत्तिरेव" मुक्त्यवस्थायां, निराकारेण तु विज्ञानेन ग्रहणाभ्युपगमे विषयप्रतिनियमस्याघटनात् "इतिः” परवक्तव्यतासमाप्तौ, "एतदपि"साख्योक्तम् " असद्” असुन्दरं, कुत इत्याह-“विषयग्रहणपरिणामस्य" विषयग्राहकत्वेन जीवपरिणतेरेव आकारत्वात् , तस्य च-उक्तरूपस्याकारस्य "अमूर्तेऽपि मुक्तात्मन्यपि, न केवलं मूर्ते इत्यपेरर्थः, " अविरोधात् ” केनाप्यबाध्यमानत्वात् , अभ्युच्चयमाह-" अनेकविषयस्यापि च" युगपदनेक विषयमाश्रित्य प्रवृत्तस्यापि च, किं पुनरेकविषयस्य "अस्य" उक्तरूपाकारस्य "सम्भवात् " घटनात् ,
222