________________
ललितविस्तरासटीका
एवं सर्वज्ञत्वानुपपत्तिरेवेति, एतदप्यसत् , विषयग्रहणपरिणामस्याकारत्वात् , तस्य चामूर्तेऽप्यविरोधात् , अनेकविषयस्यापि चास्य सम्भवात् , चित्रास्तरणादौ तथोपलब्धेरिति ॥
एतेन विषयाकाराप्रतिसक्रमादिना ज्ञानस्य प्रतिविम्बाकारताप्रतिक्षेपः प्रत्युक्तः, विषयग्रहणपरिणामस्यैव प्रतिबिम्बत्वेनाभ्युपगमात् , एवं साकारं ज्ञानमनाकारं च दर्शनमित्यपि सिद्धं भवति, ततश्च सर्वज्ञाः सर्वदर्शिनस्तेभ्यो नम इति क्रियायोगः ३१॥
पं०...."बुद्धयध्यसितमर्थ पुरुषश्चेतयते” इति अत्र हि सांख्यप्रक्रियासत्त्वरजस्तमोलक्षणास्त्रयो गुणाः, तत्साम्यावस्था प्रकृतिः, सैव च प्रधानमित्युच्यते प्रकृतेमहान, महदिति बुद्धराख्या महतोऽह
कारःआत्माभिमानः, ततः पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि, वाक्पाणिपादपायूपस्थलक्षणानि पञ्चैव कर्मेन्द्रियाणि एकादशमिच्छारूपं मनः, तथा पञ्च तन्मात्राणि, गन्धरसरूपस्पर्शशब्दस्वभावानि, तन्मात्रेभ्यश्च यथाक्रमं भूप्रभृतीनि पश्च महाभूतानि प्रवर्त्तन्ते इति, अत्र च प्रकृतिविकारत्वेनाचेतनापि बुद्धिश्चैतन्यस्वतत्त्वपुरुषोपगमात् सचेतनेवावभासते, तदुक्तं
" पुरुषोऽविकृतात्मैव, स्वनि समचेतनम् । ___ मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ १॥" अस्य व्याख्या-"पुरुषः" आत्मा "अविकृतात्मैव" नित्य एव "स्वनिर्भास" स्वाकारम् "अचेतन" चैतन्यशून्यं सत् “मनः" अन्तःकरणं " करोति” विदधाति " सान्निध्यात्" सानिध्यमात्रेण, निदर्शनमाह-"उपाधिः" पद्मरागादिः "स्फटिकम्” उपलविशेषं यथा स्वनिर्भासं करोति, तत्परिणामान्तरापत्तेः, भोगोऽप्यस्य मनोद्वारक एव, अत्राप्युक्तम्
विभक्तेदृक्परिणतो, बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥ १ ॥ अस्य व्याख्या-विभक्ता चासौ आत्मन ईदृक्परिणतिश्च प्रतिबिम्बोदयरूपेति विग्रहः, तस्यां सत्यां, सैव भोग इत्यर्थः, क या परिणतिरित्याह-" बुद्धौ” अन्तः-करणलक्षणायां " भोगो” विषयग्रहणरूपः, अस्य-आत्मनः “कथ्यते" आसुरिप्रभृतिभिः, किंवदित्याह" प्रतिबिम्बोदयः ” प्रतिबिम्बपरिणामः " स्वच्छे” निर्मले यथा चन्द्रमसो वास्तवस्य " अम्भसि ” उदके तद्वदिति । अथ प्रकृतं व्याख्यायते-बुद्धथा-अनन्तरोक्तया अध्यवसितंप्रतिपन्नं “ अर्थ " शब्दादिविषयं " पुरुषः " आत्मा “ चेतयते " जानाति, अर्थचेतने बुद्धेरन्तरङ्गकरणत्वात् ।
221