________________
ललितविस्तरास टीका निष्टितप्लवकस्य तरण्डकाभावे प्लवनसंदर्शनादिति, न चौदयिकक्रियाभावरहितस्य ज्ञानमात्राद दुःखादयः,
तथानुभवतस्तत्स्वभावत्वोपपत्तेः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तं,तदुभयस्य सर्वार्थविषयत्वादिति, उच्यते, नहि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया सम्प्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, तत्तश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । आह-एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, तथा दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मविशिष्टा अपि, ततश्च ज्ञानेन समताख्यधांग्रहणाद्दर्शनेन विषमताख्यधर्माग्रहणाद् धर्माणामपि चार्थत्वादयुक्तमेव तयोः सर्वार्थविषयत्वमिति, न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात् , ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते, तथा अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्ते इत्यतो न दोषः, एतदुक्तं भवति-जीवस्वाभाव्यात्सामान्यप्रधानं उपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते, तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति कृतं विस्तरेण । अपर आह-मुक्तात्मनोऽमूर्त्तत्वात् ज्ञानस्यापि तद्धर्मत्वेन तत्वात् विषयाकारतया. ऽयोगतस्तत्त्वतो ज्ञानाभावः, निस्तरङ्गमहोदधिकल्पो ह्यसौ तत्तरङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति तदभावात्तदभावः,
220