________________
ललितविस्तराखटीका (११) इन्द्रियाणि (५) पञ्चमहाभूतानि (१६) षोडशतत्त्वानि केवलविकृतिरूपाणि, पुरुषः, नो विकृतिः, नो प्रकृतिः, अपितु चिट्ठपोऽस्तिः
मुलप्रकृतिविकारत्वे बुद्धिः स्वयं अचेतनाऽस्ति, तथाऽपि चैतन्यरूपस्वतत्त्ववतः पुरुषस्य संनिधानादेव जाने चेतनावतीव भासते यथा भिन्नभिन्नरूपाणां संयोगतो निर्मलस्फटिकमणिः, कालपीतरक्तत्वादिरूपवान् दृश्यते, तथाऽविकृतो नित्यपुरुषआत्मा, बुद्धेः सन्निधानवशात् , अचेतनं मनः स्वसमानं चेतन कारयति, तदाऽस्मिन् पुरुषे भोक्तत्वाभिमानो भवति, वस्तुतो विकारित्वेन मनश्चेतनं न कथ्यते, सांख्यानां वचनमेवमस्ति, यत् 'मूलप्रकृते विकारभूतोभयमुखी दर्पणाकारा या बुद्धिरस्ति, तस्यां प्रतिविम्वितशब्दादिविषयान्-पदार्थान् , स्वस्वच्छस्वरूपे प्रतिबिम्बनेन, 'पुरुषश्चेतयते' अर्थात् शब्दादिअर्थ-विषयविषयक ज्ञान प्रति बुद्धिः, उपादानकारणमस्ति (चिद्रपशक्तितः (पुरुषस्य चैतन्यशक्तितः) पदार्थविषयक-ज्ञानं न भवति, परंतु अचेतनब द्धित एव पदार्थज्ञानं भवति, एषा बद्धिः पुरुषस्य नास्ति धर्मः, केवलप्रकृतेरेव विकारः, अस्यामचेतनबुद्धौ चिद्रपशक्तेः प्रतिबिम्बनात् स्वयं (चिद्रू पशक्तिः) स्वतो बुद्धितोऽभिन्नामेकां मन्यते, अत एव पुरुषे 'सुख्यह-दुःख्यह 'मिति जानाति, चिद्रूपशक्तेः प्रतिबिम्बनादेषाऽचेतनबुद्धिः चेतनवद् भासते )
पूर्वोक्तस्य साङ्ख्यमतस्य खण्डनाय कथयति 'सर्वज्ञेभ्यः सर्वदर्शिभ्यो नमो नमः सर्व जानन्तीति सर्वज्ञाः, सर्व पश्यन्तीति सर्वदर्शिनः, तत्स्वभावत्वे सति निरावरणत्वात् , (सर्वज्ञान् विना छद्मस्थजीवानां प्रथम दर्शनमुत्पद्यते, तदन्तर्मुहूर्तान्तरं ज्ञानमुत्पद्यते, सर्वज्ञानां तु प्रथमसमये ज्ञानं, ततः द्वितीये-चतुर्थे-षष्ठे समये द्वयकी-द्विगुणसमये दर्शनं जायते, अनेन हेतुना भगवत्यादिसूत्रेऽपि 'सवन्नृणं सव्वदरिसीणं' इत्यनुक्रमोऽस्ति.) ।
सर्वज्ञपदार्थः द्रव्यापेक्षया रूपिचारूपि च द्रव्यं-सर्व द्रव्यं जानाति, ( केवलज्ञानेन ), क्षेत्रापेक्षया सर्वक्षेत्र, 'कालापेक्षया सर्वकालं च भावापेक्षया प्रत्येक द्रव्यस्य भूतभाविवर्तमान सर्वानन्तपर्यायान् सम्यक् प्रकारेण जानाति स सर्वज्ञः '
___ सर्वदर्शिपदार्थः द्रव्यतः रूप्यरूपिसर्वद्रव्यं पश्यति ( केवलदर्शनेन ) क्षेत्रतः सर्वक्षेत्राणि, कालतः सर्वकालं, भावतश्च प्रत्येकद्रव्यस्य भृतभाविवर्त्तमानकालीन-सर्वानन्तपर्यायान् सम्यकप्रकारेण पश्यति (अनन्तदर्शनेन) स सर्वदर्शी.
सर्वज्ञसर्वदर्शित्वसिद्धिः अर्हन्तो भगवन्तः ( पक्षः ) सर्वज्ञाः सर्वदर्शिनः सन्तिः (अत्र सर्वज्ञत्वं सर्वदर्शित्वं साध्यम् ) यतः आत्मनः (केवल) ज्ञानं च केवलदर्शनं च स्वभावोऽस्ति, तत्प्रतिबन्धककेवलज्ञानावरणीयकेवलदर्शनावरणीययोः कर्मणोः क्षयोऽस्ति, अर्थात् 'तत्स्वभावत्वविशिष्टनिरावरणत्वं' अत्र हेतु यः, पदकृत्यं पूर्व कथितमस्ति,
224