________________
ललितविस्तरासटीका
एवमुभयकोटिकार्थघटनेनाऽर्थात्-स्वसंविदितार्थपरिच्छेदरूपकारणेन वाह्यार्थ परिच्छेदरूपकार्येणाऽत एव ( बुद्धिकृतेन्द्रियकृत ) कार्यकारणरूपार्थपरिच्छेद एवार्थ प्रत्यक्षता ज्ञेयेति नीत्यान्यायेन-युक्तितः, बुद्ध-बोधकपदस्य सिद्धि ज्ञेया. इति शक्रस्तवस्य एकोनत्रिंशत्तमपदस्य व्याख्या स सप्ता।
अथ शक्रस्तवस्य त्रिंशत्तमपदस्य व्याख्यातः पूर्व तस्याऽवतरणिकाऽवतार:__ एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यन्ते, "ब्रह्मवद्ब्रह्मसङ्गतानां स्थिति” रिति वचनाद्, एतन्निराचिकीर्षयाऽऽह
"मुत्ताणं मोयगाणं" " मुक्तेभ्यो मोचकेभ्यः, चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इति योऽर्थः, न जगत्कर्तरि लये निष्ठितार्थत्वं, तत्करणेन कृतकृत्यस्वायोगात्, हीनादिकरणे चेच्छाद्वेषादिप्रसङ्गः, तद्वयतिरेकेण तथाप्रवृत्त्यसिद्धेः, एवं सामान्यसंसारिणोऽविशिष्टतरं मुक्तत्वमिति चिन्तनीय, निमित्तकर्तृत्वाभ्युपगमे तु,
तत्त्वतोऽकर्तृत्वं, स्वातन्त्र्यासिद्धेः, न च द्वयोरेकीभावोऽन्यतराभावप्रसङ्गात् , न सत्तायाः सत्तान्तरप्रवेशेऽनुपचयः, उपचये च सैव सेत्ययुक्तं, तदन्तरमासन्नः स इति नीतिः ।
नैवमन्यस्यान्यत्र लय इति मोहविषप्रसरकटकबन्धः, तदेवं निमित्तकर्तृत्वपरभावनिवृत्तिभ्यां तत्त्वतो मुक्तादिसिद्धिः ॥३०॥ एवं जिनजापकतीर्णतारकबुद्धबोधकमुक्तमोचकभावेन स्वपरहितसिद्धरात्मतुल्यपरफलकर्तृत्वसम्पदिति ॥८॥ ___पं०..."एवं च" अनेन प्रकारेणानुमानादिविषयताऽघटनेन प्रत्यक्षबुद्धिः इन्द्रियवदज्ञातास्वयमप्रतीतैव प्रत्यक्षबुद्धिः “ स्वकार्यकारिणी" स्वकार्य विषयस्य परिच्छेद्यत्वं तत्कारिणी "इत्यपि” एतदपि, न केवलमस्यानुमानादिविषयत्वमयुक्तमेव, कुत इत्याह-"तत्कार्यप्रत्यक्षत्वेन" तस्य-इन्द्रियस्य कार्य-विज्ञानं तस्य प्रत्यक्षत्वं तेन “वैधात् " वैसदृश्याबुद्धिकृतार्थप्रत्यक्ष
215