________________
ललितविस्तरासटीका
तायाः, अन्यादृश हीन्द्रियप्रत्यक्षमन्यादृश बुद्धः, इदमेवाह-"अतः” इन्द्रियाद् अर्थप्रत्यक्षताअर्थपरिच्छेद एव विषयप्रतीतिरेवो'पलब्धव्यापाररूपा, बुद्धेस्तु विषयस्यो पलभ्यमानतैवार्थप्रत्यक्षता, साधर्म्यसिद्धौ च दृष्टान्तसिद्धिरिति ।। ___"नेत्यादि,” न नैव जगत्कर्त्तरि-ब्रह्मलक्षण आधारभूते लये-अभिन्नरूपावस्थाने मुक्तान निष्ठितार्थत्वं, कुत इत्याह-" तत्करणेन" तस्य-जगतः करणेन-ब्रह्मसाङ्गत्येन युक्तानां, अतः कृतकृत्वायोगाद् , अत्रैवाभ्युच्च यमाह-" हीनादिकरणे च” 'हीनमध्यमोत्कृष्टजगत्करणे मुक्तानाम् "इच्छाद्वेषादिप्रसङ्गः" सङ्कल्पमत्सराभिष्वङ्गप्राप्तिः, कुत इत्याह-"तद्वयतिरेकेण" इच्छाद्यन्तरेण " तथाप्रवृत्त्यसिद्धः” वैचित्र्येण प्रवृत्त्ययोगाद्, एवं जगत्करणे “ सामान्यसंसारिणो" मनुष्यादेरन्यतरस्माद्, "अविशिष्टतरम्' अतिजघन्य “मुक्तत्वमिति चिन्तनीयम्” अस्य भावना कार्या, अन्यस्य जगत्कर्तृमशक्तत्वेन परिमितेच्छादिदोषत्वाद्, अथ कर्मादिकृतं जग. द्वैचित्र्यं, पुरुषस्तु निमित्तमात्रत्वेन कर्तेत्यपि निरस्यन्नाह-"निमित्तकत्तृत्वाभ्युपगमे तु" निमित्त सन्नसौ कर्ता, इच्छादिदोषपरिजिहीर्पयेत्येवमङ्गीकरणे
___" तत्त्वतो" निरुपचरितत या अकत्तत्वं पुरुषस्य. हेतुमाह-" स्वातन्त्र्यासिद्धेः" स्वतन्त्रः कतैति कर्तृलक्षणानुपपत्तेः, तथाऽन्यस्यान्यत्र लयोऽप्यनुपपन्न इति दर्शयन्नाह-"न च” द्वयोः" मुक्तपरमपुरुषयोः “एकीभावो" लयलक्षणः, कुत इत्याह-"अन्यतराभावप्रसङ्गाद्, अन्यतरस्यमुक्तस्य परमपुरुषस्य वाऽसत्त्वप्राप्तेरन्यतरस्येतरस्वरूपपरिणतो "तत्र लीनत्वोपपत्तेः, एतदनभ्युः पगमे दूषणान्तरमाह-"न" “सत्तायाः" परमपुरुषलक्षणायाः “सत्तान्तरे" मुक्तलक्षणे प्रविष्टे सतीत्यर्थोऽनुपचयः किन्तूपचय एव वृद्धिरूपः, घृतादिपलस्य पलान्तरप्रवेश इव, यद्येवं ततः किमित्याह-उपचये च-सत्तायाः " सैव " प्राक्तनी पुरूषस्य मुक्तस्य वा “ सा” सत्तेति "अयुक्तम्" असङ्गतं, कुतो १ यतः " तदन्तरं" सत्तान्तरं पृथक् तत्सत्तापेक्षया पन्नआःप्राप्तः, स इत्युपचयः, कचिच्चासन्नमिति पाठस्तत्र तदन्तरमिति योज्यमिति, “ नीतिः" एषा न्यायमुद्रा॥
अथ प्रकृतसिद्धिमाह-"न" नैव "एवं" द्वयोरेकीभावेऽन्यतराभावप्रसङ्गेनोपचये तदन्तरापत्त्या वा “अन्यस्य सामान्येन मुक्तादेः “अन्यत्र" पुरुषाकाशादौ लय इति, एष लयनिषेधो मोहविषप्रसरकटकबन्धः, एवं निषेधे हि कटकबन्ध इव विषं न मोहः प्रसरतीति, “तत्" तस्माद् “ एवम्" उक्तनीत्या "निमित्तकर्तत्वपरभावनिवृत्तिभ्यां" निमित्तकर्त्तत्वं च मुख्यकत. त्वायोगेन भव्यानां परिशुद्धप्रणिधानादिप्रवृत्त्यालम्बनतया परभावनिवृत्तिश्च लयायोगलक्षणा, ताभ्यां "तत्त्वतो" मुख्यवृत्त्या "मुक्तादिसिद्धिः" मुक्तमोचकसिद्धिः ॥
टी०....एतेऽपीति जगतःकर्तरि ( उपादानभृते वानिमित्तकारणभृते ) ईश्वरे परमपुरुषे ब्रह्मणि लीनाः ( अभिन्नाः एकमृताः) मुक्ता एवेति वादिभिः ‘सन्तपनस्य शिष्यैः ' तत्त्वतः (निश्चयतः ) एतेऽपि-अर्हन्तो भगवन्तः अमुक्तादय एवेप्यन्ते.
216