________________
ललितविस्तरासटोका चेदुच्यते यस्मात् प्रत्यक्षपरिच्छेद्योऽर्थ एव प्रत्यक्षज्ञानज्ञेयभृत एवार्थ एव 'अर्थ-प्रत्यक्षता, लिङ्गत्वेनाभिमता ( परन्तु अर्थविषयकप्रत्यक्षज्ञानमपि न, अर्थ-प्रत्यक्षतां ) अर्थात् 'अर्थ. प्रत्यक्षीकरोमी ' ति प्रतीतिसिद्धा, इन्द्रियज्ञानरूपप्रत्यक्षस्य कर्मरूपतां-विषयतां प्राप्तोऽर्थ एवइन्द्रियज्ञानरूपप्रत्यक्ष-ज्ञानविषयीभूतोऽर्थ एव अर्थप्रत्यक्षतायाः स्वरूपं, न तु तद्व्यतिरिक्तं किञ्चित्, (इन्द्रियज्ञानरूपप्रत्यक्षज्ञाननिरूपितविषयताविशिष्टोऽर्थ एवार्थ-प्रत्यक्षताऽस्ति. )
तथा च प्रत्यक्षज्ञानरूपविशेषणस्याप्रतीतौ-असंवेदने सति, इयं प्रत्यक्षता अर्थस्य-अर्थनिष्ठेषा, 'विशिष्टाऽवस्था'-प्रत्यक्षज्ञानविषयभावपरिणतिरूपा विशिष्टावस्था (रूपा प्रत्यक्षता) न प्रतीयते-निश्चीयते इति परिभावीयम्, (यतः विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वमिति न्यायोऽत्र विचार्यः ) एवं च यथा प्रदीपादेः प्रकाशः, स्वयमप्रकाशितत्वेन, प्रदीप-प्रकाशेन प्रकाशितघटादे निश्चयो न भवति तथा प्रत्यक्षज्ञानरूपविशेषणेऽज्ञाते सति अर्थस्य प्रत्यक्षज्ञानविषयभावपरिणतिरूपप्रत्यक्षतारूपविशिष्टावस्थाया निश्चयो न भवति, अत एवान्वयव्यतिरेकाभ्यामनिश्चित-अर्थप्रत्यक्षतारूपलिङ्गेन बुद्धिविषयकज्ञानरूपसाध्यस्य निश्चयो न भवति.
स्याद्वक्तव्यं यथेन्द्रिय स्वयमप्रतीतमपि ज्ञानं प्रत्यक्षं जनयति तथा तद्भवा बुद्धिरपि स्वयमप्रतीताऽऽप्यर्थ प्रत्ययं करिष्यति, अर्थाद् यथेन्द्रियं स्वयमज्ञातं ( स्वयं स्वमजानत्-अस्वप्रकाशकं सत् ) अपि प्रत्यक्षज्ञानमुत्पादयति तथेन्द्रियजन्यबुद्धिः (प्रत्यक्षादिबुद्धिः ) अपि स्वयमज्ञाता ( स्वयं स्वं अजानती) जीवाजीवादितत्त्वनिर्णयं करिष्यतीति शङ्कापरिहारायाह
‘एवं चे' ति.
वादी कथयति-इन्द्रियवदज्ञातस्वरूपा ( स्वयं स्वं स्वमजानती ) प्रत्यक्षबुद्धिरियं स्वकार्य ( अर्थरूपविषयविषयकज्ञानरूपकार्य ) करोतीत्यपि कथनं यथा प्रत्यक्षबुद्धौ अनुमानादिज्ञानविषयताया निरूपणं युक्तिवाह्यम्, तथेतदपि पूर्वकथन युक्तियुक्तं न, यतः इन्द्रियजन्यज्ञाननिष्ठ (निरूपित) प्रत्यक्षतया सह बुद्धिजन्य (कृत) अर्थप्रत्यक्षताया वैधर्म्यमस्ति-समानधर्मता नास्ति, अर्थात् , अर्थप्रत्यक्षं विजातीयं च बुद्धिकृतार्थप्रत्यक्षं विजातीयं-विषममस्ति, अत एवेन्द्रियवत् स्वयमज्ञातस्वरूपा प्रत्यक्षबुद्धिरर्थज्ञानं करिष्यतीति वर्णनमयुक्तं यतः दृष्टान्तस्य वैषम्यमस्ति,
(१) बुद्धिजन्यार्थप्रत्यक्षता=अर्थविषयकज्ञानमेव स्वबुद्धावेव (स्वज्ञान एव) अर्थस्फुरायमाणस्वभावा (विषयप्रतीतिरेव) बुद्धिप्रत्यक्षता-बुद्धिजन्यार्थप्रत्यक्षता यथा मया घटो दृष्टः,
(२) इन्द्रियजन्यार्थप्रत्यक्षता=इन्द्रियेण सहार्थसन्निकर्षे ( संयोगादिसंबन्धे ) सति अर्थविषयकप्रतीति (ज्ञान) रूप प्रत्यक्षता, अत्रैषेन्द्रियजन्यार्थप्रत्यक्षता यथाऽयं घट इति.
214