________________
ललितविस्तरासटीका
अनुमानादिबुद्धिगतविषयस्य चर्चा प्रतिनियतबाह्य (पर) पदार्थरूपविषयग्राहकप्रत्यक्षादिरूपज्ञानव्यक्ति', (विशेषः ) अनुमानादिज्ञाने विषयत्वेन न भासते, अर्थाद् , अनुमानादिज्ञानं प्रतिनियतपरपदार्थग्राहकप्रत्यक्षादिज्ञानं विषयत्वेन न गृह्णाति, यतः तदा-अनुमानादिबुद्धिकाले ग्राह्यविषयरूपप्रत्यक्षादिज्ञानव्यक्ते (विशेषस्य) असत्त्वमस्ति-(अभावोऽस्ति) यतो योगपद्येनैकसमयाऽवच्छेदेन ज्ञानद्वयस्यास्वीकारः तथा चानुमानादिबुद्धेः प्रत्यक्षादिवस्तुगत-सामान्यं विषयो न, यतः प्रत्यक्षादिरूपज्ञानव्यक्त्या सह प्रत्यक्षादिज्ञान-सामान्यं तदात्मकं-तदभिन्नं वर्तते, ज्ञानव्यक्तिसत्त्वे ज्ञानसामान्यस्य सत्ताऽस्ति, ज्ञानव्यक्तेरभावे ज्ञानसामान्याभावः ।
किञ्चिद् विशेषेभ्यो सामान्यं भिन्नमस्तीति स्वीकारे सामान्यज्ञानाधारभूत-प्रत्यक्षादिव्यक्ते ग्रहण यदा नास्ति तदाधेयभूत-ज्ञानसामान्यस्य ग्रहणं कुतः सम्भवेत् ? ( यदा प्रत्यक्षा दि. ज्ञानविशेषाणां कूटः, अनुमानादि बुद्धेविषयो नास्ति तदा ज्ञानसामान्यमपि विषयत्वेन कुतः सम्भवेत् ?) केवलं व्यक्तेरभावे सामान्याभावमात्रं नास्ति, अपितु ज्ञानरूपव्यक्तेरग्रहणे ज्ञानसामान्यग्रहणमविचिन्त्य-नास्ति, यथा वृक्षादिव्यक्तेरभावे वृक्षादिसामान्याभावस्तथा वृक्षादिव्यक्तेरग्रहणे वृक्षादिसामान्यस्याग्रहणमस्ति. एवं विचारणीयम् ।
भादृसिद्धान्तः पदार्थस्य प्राकट्येन ( ज्ञातता-अर्थप्रत्यक्षताद्वारा ) ज्ञानस्य संवेदनं ( अहं ज्ञानं जानामीति ज्ञानं-अनुव्यवसायात्मकं ) भवति, अर्थाद् घटज्ञानाऽनन्तरं ( अर्थविषयकप्रत्यक्षज्ञानाऽनन्तरं) घटस्य (अर्थस्य ) प्राकट्य (अर्थप्रत्यक्षता-ज्ञातता) भवति, इदं घटप्राकट्यं, घटज्ञानात् पूर्व नोत्पद्यते, घटज्ञानानन्तरमुत्पद्यतेऽतएव घटप्राकट्यमिदं घटज्ञानादुत्पद्यते, अनेन अर्थप्राकट्येन ज्ञानस्य स्वसंवेदन (ज्ञानविषयकज्ञान) उत्पद्यते, अर्थप्राकट्यरूपं कार्य दृष्ट्वा, अर्थज्ञानरूपकारणज्ञानं अनुमीयते, यथा धूमकार्य दृष्ट्वा, अमिज्ञानमनुमीयते, तथा च घटज्ञानं विना घटप्राकट्यस्यानुप्रलब्धिः अर्थाद् , घटप्राकट्याऽन्यथानुपपत्त्या घटज्ञानमनुमीयते, साध्येन सह अविनाभावसंबंधयुक्तः ( साध्यनिरूपितव्याप्तिविशिष्टः ) निश्चितं यत् तल्लिङ्गेन यज्ज्ञानं साध्यं निर्णयति तज्ज्ञानमनुमानं ।
___ यथाहि-'प्रत्यक्षादिबुद्धि द्यते' अर्थप्रत्यक्षतावत्त्वात् , अत्र अनुमानप्रयोगे ज्ञानविषयत्वं साध्य, अर्थप्रत्यक्षता हेतुरस्ति अर्थात् प्रत्यक्षादिबुद्धिविषयक-ग्रहणरूप-साध्यं प्रति अर्थप्रत्यक्षता (ज्ञातता) हेतुरस्ति, अर्थप्रत्यक्षतारूपहेतुना प्रत्यक्षादिबुद्धिविषयकग्रहणं साध्यतेऽथवा प्रत्यक्षादिबुद्धिमध्ये प्रत्यक्षादिज्ञानविषयत्वरूपं साध्यं अर्थप्रत्यक्षतारूपहेतुना साध्येत ।
बुद्धिग्राहकानुमानस्य (बुद्धिविषयकज्ञान (स्वसंविदित) साध्यकानुमानस्य) लिङ्गान्तरासम्भवेनान्यै लिंगतया कल्पिता वक्ष्यमाणरूपा 'अर्थप्रत्यक्षता' लिङ्ग-हेतु न, कथमिति
213