________________
ललितविस्तरासटीका 'मम पदार्थज्ञानं जातं' यथा घटेन सहेन्द्रियबुद्धयोः सम्बन्धाद् घटज्ञानं ततः ईदृशं ज्ञानं भवति 'मया घटो ज्ञातोऽस्ति' ततो घटज्ञानानन्तरं घटप्राकट्यं (ज्ञातत्व) जायते, इदं घटप्राकट्यं ज्ञानात् पूर्व न भवति, ज्ञानोत्पत्त्यनन्तरं भवति, अस्मादेतत् 'घटप्राकट्य' ज्ञानेन जायते, अत एव वयं अर्थप्राकट्यान्यथानुपपत्तिहेतुना ज्ञानं जानीमः, ज्ञानस्य ज्ञानं कुर्मः इति परोक्षज्ञानवादिभिः मीमांसकभेदैः ( कुमारिलभट्टानुयायिभिः ) नीत्या-न्यायेनेतेऽर्हन्तो भगवन्तः अबुद्धा ( स्वसंविदितज्ञानरहिता, आदिपदेनाबोधका एवेष्यन्ते,)
तेषां वचनमिदं 'नो-अस्माक बुद्धिः अप्रत्यक्षा-परोक्षरूपा, अर्थः प्रत्यक्षोऽ'स्तीति, इति प्रतिपादयतां मीमांसकविशेषाणां मतखण्डनायाह
"बुद्धेभ्यो बोधकेभ्यो नमो नमः''। अर्थात् (मिथ्यात्वसहितज्ञान) रूप निद्रारूपभावनिद्रायां प्रसुप्ते जगति (विश्वे) परोपदेशं विना जीवाऽजीवादिरूपं तत्त्वं ( स्वप्रकाशकप्रत्यक्षज्ञानद्वारा ) बुद्धवन्तो बुद्धाः स्वसंविदितेन ज्ञानेन, अन्यथा बोधायोगात् ,
स्वपरप्रकाशकज्ञानस्य चर्चा=यथा दीपकः स्वयं स्वं तथा घटादिपरपदार्थान् प्रकाशयति, तथा ज्ञानं ( जीवस्वभावः ) स्वयं स्वं ( स्वस्वरूपं ) तथा परपदार्थान् , जानाति, तथा च स्वसंविदित (स्वप्रकाशक-ज्ञानविषयकज्ञानरूप) ज्ञाने सत्येव जीवाजीवादितत्त्वविषयक बोध सत्त्वे सत्ताऽस्ति, स्वसंविदित (स्वप्रकाशक) ज्ञानस्याभावे सति जीवाजीवादितत्त्वविषयक-बोधरूपज्ञानस्याभावः,एतादृशान्वयव्यतिरेकसहचारज्ञानेनेदं सिद्धं भवति, स्वसंविदितज्ञानं कारणमस्ति, यदा जीवाजीवादितत्त्वविषयकबोधरूपं ज्ञानं कार्य, यदि ज्ञानं स्वसंविदित न मन्येत, तदा स्व (बुद्धि) ज्ञानं कर्तुं द्वितीयादिज्ञानापेक्षातः प्रकृतसिद्धिर्भविष्यतीति चेदुच्यते, अस्वसंविदिताया बुद्धः-प्रत्यक्षादिरूप बुद्धेरवगमे (यज्ञानं स्वरूपज्ञानेऽसमर्थ तज्ज्ञानान्तरेणाऽपि ज्ञातुमशक्यं तच्च स्वपरभाववेदनाऽहं) कश्चिदुपायः-बुद्धयन्तर (बुद्धे भिन्नं बुद्धयन्तरमनुमानादि) रूप उपायो न, अर्थात् परप्रकाशकानुमानागमादिरूप-सर्वज्ञानस्य विषयः प्रत्यक्षादिरूप बुद्धिनं, परप्रकाशकप्रत्यक्षादिरूपबुद्धेरवगमकमनुमानादिरूपं ज्ञानान्तरं नास्ति, प्रत्यक्षादिरूपबुद्धेरवगमे अनुमानादिरूपभिन्नबुद्धि न प्रवर्तते, विषयत्वात् , अर्थात् प्रत्यक्षबुद्धेविषयः योग्यसम्मुखस्थः पदार्थः, तदाऽनुपलभ्यमानपदार्थः, अनुमानज्ञानविषयः, प्रत्यक्षाऽनुमानाभ्यामनुपलभ्यमान पदार्थः, परलोकात्मादिः, आगमस्य विषयो भवति, एवं प्रत्यक्षादिप्रमाणानां विषयो नियतोऽस्ति,
इदमेव हार्द स्वसंविदितादन्यज्ञानं, प्रत्यक्षादिरूपज्ञानं विषयत्वेन न गृह्णाति यतः सर्वज्ञानं भिन्नभिन्नविषयकं वर्तते तदा स्वसंविदितं ज्ञानं स्वयं (प्रत्यक्षादिरूपं ज्ञानं ) स्वं विषयत्वेन ग्रहीतुं समर्थमस्ति, यतः स्वविषयकं स्वसंविदितं ज्ञानं भवति यतो ज्ञानं सविषयकं कथ्यते.
212