________________
ललितविस्तरासटीका मेव, तत्कार्यप्रत्यक्षत्वेन वैधाद, अतोऽर्थप्रत्यक्षताऽर्थपरिच्छेद एवेति नीत्या बुद्धादिसिद्धिः ॥ २९ ॥
पं०...."अन्यथा बोधेत्यादि” अन्यथा-अस्वसंविदितत्वे बुध्धेर्बोधायोगात्-जीवादितत्त्वस्य संवेदनायोगात् , स्याद्वक्तव्यं-बुद्धयन्तरेण बुद्धिसंवेदने प्रकृतसिद्धिर्भविष्यतीत्याशङ्कयाह-"नास्त्र. संविदिताया बुद्धेः-प्रत्यक्षादिरूपाया अवगमे कश्चिदुपायो-वुद्धयन्तरलक्षणः, कुत इत्याह
"अनुमानादिबुद्धरविषयत्वाद्" अनुमानागमादिबुद्ध यन्तरस्य तत्राप्रवृत्तेः, एतदेव भाव. यति-" न ज्ञानव्यक्तिः” प्रतिनियतबहिरर्थग्राहिका प्रत्यक्षादिरूपाऽनुमानादिबुद्धेः “विषयो" ग्राह्यः, कुत इत्याह-"तदा" अनुमानादिबुद्धिकाले " तदसत्त्वात्" तस्या-ज्ञानव्यक्तेाह्यरूपाया असत्त्वात् , यौगपद्येन ज्ञानद्वयस्यानभ्युपगमात् , तर्हि तत्सामान्यं विषयो भविष्यतीत्याह-“न तत्सामान्यं " न प्रत्यक्षादिवस्तुसामान्यं, विषय इत्यनुवर्तते, कुत इत्याह-तदात्मकत्वात्" व्यक्तिरूपज्ञानस्वभावत्वात् . सामान्यस्य व्यक्त्यभावे तदभावाद्, अभ्युच्चयमाह"न च" नैव "व्यक्त्यग्रहे" व्यक्तौ तदाधारभूतायामपरिच्छिद्यमानायां "तगृहः” सामान्यग्रहः किश्चिद्वयक्तिभ्यो भेदाभ्युपगमे " इत्यपि” एतदपि, न केवलव्यक्त्यभावे सामान्याभाव इत्यपि शब्दार्थः “चिन्त्यं" परिभाव्यं, वृक्षादिशेषप्रमेयेषु इत्थमेव दर्शनात्, किञ्च-साध्याविनाभुवो लिङ्गानिश्चितात्साध्यनिश्चायकमनुमानं, न चात्र तथाविधं लिङ्गमस्ति, तथा चाह___ "न" नैव " अर्थप्रत्यक्षता" लिङ्गान्तरासम्भवेनापरैर्लिङ्गतया कल्पिता वक्ष्यमाणरूपा “लिङ्ग” हेतुर्बुद्धिग्राहकानुमानस्य, कुत इत्याह-“यद्” यस्मात् “ प्रत्यक्षपरिच्छेद्योऽर्थ एव न तु तत्परिच्छेदोऽपि “अर्थप्रत्यक्षता" लिङ्गाभिमता एतदेव स्पष्टयति-"प्रत्यक्षकर्मरूपता" प्रत्यक्षस्य-इन्द्रियज्ञानस्य कर्मरूपतां-विषयतामापन्नोऽर्थ एव, न तु तद्वयतिरिक्तं किश्चिद्, यदि नामैवं ततः किमित्याह-" न चेयं प्रत्यक्षता “ अस्य” अर्थस्य “ विशिष्टावस्था" प्रत्यक्षज्ञानविषय भावपरिणतिरूपा "विशेषणाप्रतीतो" विशेषणस्य-प्रत्यक्षज्ञानस्याप्रतीतौ-असंवेदने “ प्रतीयते" निश्चीयत इति परिभावनीयं, नहि प्रदीपादिप्रकाशाप्रतीतौ तत्प्रकाशितघटादिप्रतीतिरुपलभ्यते, न चान्वयव्यतिरेकाभ्यामनिश्चिताद्धेतोः साध्यप्रतीतिरिति स्याद्वक्तव्यं-यथेन्द्रियं स्वयमप्रतीतमपि ज्ञानं प्रत्यक्षं जनयति, तथा तद्भवा बुद्धिरपि स्वयमप्रतीताऽप्यर्थप्रत्ययं करिष्यतीत्याशकां परिहरन्नाह
टी....एतेऽपीति-ज्ञानं परोक्षं ( अतीन्द्रियं ) अस्ति, (ज्ञानं प्रत्यक्षं-स्वसंविदितं नास्ति) इत्येवं वादिभि मर्मीमांसकभेदैः ( कुमारिलभट्टानुयायिभिः ) ज्ञानं, स्वयं स्वं न जानाति-स्व संविदितं नास्ति, यतो ज्ञाने क्रियाया असंभवः, यथाऽत्यन्तनिपुणो नटोऽपि स्वयं स्वं स्कन्धं नारोहति, तथा ज्ञाने क्रियाया असम्भवः, अतो ज्ञानमतीन्द्रियमस्ति-परोक्षमस्ति, (१) किञ्चाथैः सहेन्द्रियबुद्धिद्वयस्य सम्बन्धे जाते सति, इन्द्रियबुद्धिभ्यां ज्ञानं जायते ततः (२) पदार्थानां प्राकट्यं अर्थप्राकट्य ) जायते ततः जायते ततः (३) एवमीदृशं ज्ञानं भवति
211